सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३ ) सर्वत्रैव ज्ञानविषयभूतेभ्यः वस्तुभ्यः यदि नामरूपादिकं लोपयितं शक्यते तर्हि यत् किञ्चिदवशिष्यते तत् सच्चिदानन्दमयं ब्रह्मव। अतएवोक्त वेदान्तविद्भिः- अस्ति माति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यत्रयं ब्रह्मरूपं जगद्र पमतो द्वयम || । तथाच अनुभूयमानानां सर्वेषां नामरूपातिरिक्त यहिद्यते तदेव ब्रह्म- खरूपमिति सर्व सदेव इति फलतः प्रतिपादितम् । अतएव सिद्धान्तितं तैः सर्व खलिदं ब्रह्म इति । तथाच माध्यमकमते निरधिष्ठानकश्च भ्रमः परिकल्पितः । अहे त- वैदान्तिकमते तु साधिष्ठानकः एव भ्रमः खोकतः, अधिष्ठानभूतं वस्तु च यतः परमार्थ सत् ततएव अधिष्ठानसाक्षात्कारनिवर्त्य त्वं भूमस्य खोकतं तैः तत्र च भूमविषयोभूतानां रजतादीनां सत्त्वमसत्त्व वा इति नितंतुमशक्यतया अनिर्वाच्यत्वमेव तस्य प्रतिपादितम् । तथा अतवैदान्तिकमते सच्चिदानन्दस्वरूपात् ब्रह्मण एव लूतातन्तुन्यायेन सर्व जगत् समुत्पन्न', अविद्या तु तत्र सहकारिणी। माध्यमकमते तु वस्तुतः कार्यकारणभाव एव नोपपद्यते इति प्रागेव प्रतिपादित- मस्माभिः। तथा अद्दतवेदान्तमते जीवब्रह्मणोक्यात् आत्मा नाम कश्चित्नित्यः पदार्थ: स्वीकृतः, माध्धमकमते तु तादृशं किमपि नास्ति । अतो भूयान् खलु भेदः पदे पदे माध्धमकातवेदान्तयोः तत्त्वानुशीलन- तत्पराणां शास्त्ररसरसिकानां चित्ते पदं विदधाति । यद्यपि नामरूप- शून्यतया यत्किञ्चित् अवाङ्मनसगोचरं ब्रह्मति व्यपदिश्यते वैदान्तिकैः, तादृशमेव सर्वविधमेदशून्यं नि:स्वभावत्वमेव वस्तूनां माध्यमकसम्मत- मिति निःखभावत्वब्रह्मणोः साम्यमापाततः प्रतिभाति, तथापि नैतत् समीचीन: सिद्धान्त:, ब्रह्मणः सच्चिदानन्दमयत्वाङ्गोकरणात् निःस्वभा- वस्य शून्यस्य अतथा वात् पारस्पारिकमतवैषम्यं अलङ्घनीयमेवेति अस्माकं सिद्धान्तः।