सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलमध्यमककारिका १३२ इत्याचार्यचन्द्रकोतिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्ती सस्कृत- परीक्षा नाम सप्तमप्रकरणम् । मञ्जव्याख्या ॥ . ननु उत्पादस्थितिभङ्गानामप्रामाणिकत्वे घटो जायते, घटस्तिष्ठति, घटो नश्यति इत्यादि व्यवहाराणां सर्व प्रमाणसिद्धानां कथमुपपत्तिः । सर्वे खलु लौकिकव्यवहाराः उत्पादाद्यर्थे प्रमाणतामापादयन्ति । नहि लौकिकव्यवहारमपहाय भवतापि किञ्चित् कथयितुं शक्यते भवन्मते भवतः, वचसः, कथनक्रियायाश्च अतात्त्विकत्वात् न किर्माप भवता वक्तुमेव शक्यते, न वा भववचनं प्रमाणतया ग्रहणीय' स्यात्, सर्वस्यैव अतात्त्विकत्वात्। तस्मात् विचारमार्गप्रविष्ट न सयुक्तिक- प्रमाणपुरःसरं खपक्षप्रतिपादनतत्परण भवता व्यवहारप्रामाण्य- मवश्यमभ्युपतव्यमिति उत्पादहितिभङ्गविषयकानां सर्वव्यवहाराणां जागरूकत्वात् न केवलं वचनमानेणैव तत् खण्डयितुं शक्यते इति चेदत्रोच्यते, न वयं सर्वेषां व्यवहाराणां अनस्तित्वमङ्गोकुर्मः, पार- मार्थिकत्वं तु तेषां न मृष्यामहे। अतात्त्विकत्वेऽपि पदार्थानां तत्र पारमार्थिकल प्रकल्प्य भवति च व्यवहारो लोके । तलमलिनता- शून्यस्यापि गगनस्य तलमलिनतादि व्यवहारो दृश्यते । तस्मात् सर्वेषां व्यवहाराणां अपारमार्थिकत्वेन स्वप्रादिवत् तत्र विभावनीयम् । तस्मात् भवतां परिकल्प्यमाना उत्पादहितिभङ्गाः न वस्तुसन्तः इत्येव- भस्माकं मतम् । मायामरीच्युदकगन्धर्वनगरादिवत् तेषामपारमार्थिकत्व तु अस्माकमपि नारुचिजनकम् । एतदभिप्रायेणाह-यथा मायेति। कतव्याख्यानमेतत् । इदमत्रावधयम्। सर्वेषां जागतिकपदार्थानां व्यवहाराणाञ्च अपारमार्थिकत्वं अहेतबादिशिरोमणे: श्रीमच्छङ्कराचार्यस्य तथा नागाजुर्नाचार्य्यस्य सम्मतम् । अतात्त्विकत्वांश आचार्यप्रवरयोः मतसाम्येऽपि मौलिकं वैलक्षण्यं विद्यते एव। शङ्करमते सर्वेषां पदार्थानां ब्रह्मसत्तातिरिक्त-सत्तराहित्यतया मूलतः ब्रह्मखरूपत्वमेव ।