सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् १३३ तत्त्र अर्थात् सर्वेषां सत्त्वमव्याहतमेव । सत् पुनरकमेव। एकत्वञ्च सजातीयविजातीय-स्वगतभेदत्रयराहित्यम् । तथाच यत्- किञ्चिद्ध दयुक्तं अर्थात् व्यवहार्यमाणं वैचित्रां परिलक्षात, तह चित्रान्तु न पारमार्थिकम् । अपारमार्थिकत्व पि च न पुनरसत्त्व तेषामभिमतम् । असतामलोकत्वेन बन्धापुत्रादिवत् व्यवहारानहतया व्यवहार्य माणा- नामसत्त्वे तादशव्यवहारासम्भवात्। न च पुनः सर्वथा वैचित्रास्य सत्त्वमपि। तस्मात् व्यवहृयमानस्य उच्चावचनीचसुखदुःखादि- भेदभिन्नस्य विविधवेचिनामयस्य जगतः न सर्वथा सत्यत्व उत्तरकाल- वाध्यत्वात् शुक्तिरजतादिवत्। न वा सर्वासत्त्व व्यवहृयमाणत्वात् असत्त्वस्य व्यवहृयमाणत्वासम्भवात् । तस्मात् अनिर्वाच्यत्वमेव जगतोऽभिमतम् । निविधिञ्च सत्त्व अद्दतवादिभिरङ्गोकतं पारमार्थिक व्यवहारिक प्रातिभासिकञ्चति । प्रातिभासिकत्वं शुक्तिरजतादिस्थले आरोप्यमाणस्य रजतस्य ; व्यवहारिकसत्त्व जगतः ; पारमार्थिक- सत्त्व, निर्गुणस्य ब्रह्मणः । तस्मात् सन्मूलकव्यवहारतया आकाश- कुसुमादिवत् सर्वथा असत्त्व जगत: नाहतवादिनामभिमतम् । अर्थात् वस्तूनां तत्त्व सदेव इति तेषां सिद्धान्तः । माध्यमिकास्तु वत्तूनां तत्त्व न सत्त्व; न वासत्त्व, न वा सदसदात्मकत्व', न वा न सत् न वा असदात्मकत्वमिति मन्यन्ते। नि:स्वभावमेव तत्त्वतो सर्वमिति तेषां सिद्धान्तः। सुतरां व्यवहाराणामपि निःस्वभावतया गन्धर्वनगरादिवत् अलीकत्व तेषामभिमतम् । अनाद्यविद्याप्रभावन भवति च तथा व्यवहारः इति सर्वेषामेव सिद्धान्तः। तस्मात् अय तावत् महान् मौलिकः प्रभेदः यत् शङ्करमते सत्त्वमेव वस्तूनां खभावः सत्त्वस्य वत्तुत्व- समनियतत्वात्। माध्यमिकमते तु न तथेति ॥ तस्मात् व्यवहारांश अतात्तिकत्वबुद्धिसाम्येपि तत्त्वांश महान् प्रभेदः वर्तते इति स्थितम् ॥ , ३४॥ Statot-7049 6969 tai, 7.1 71 swastarfa 117, GHETOT ES917, fgft e famae galt i ERITI 75075: afagata pecae .