सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षानाम सप्तमं प्रकरणम् १३१ यथा माया यथा खप्नो गन्धर्वनगर यथा। तथोत्पादस्तथा स्थानं तथा मङ्ग उदाहृतम् ॥३४ ॥ यथा मायादयः खभावनानुत्पन्ना अविद्य (माना) मायादिशब्दवाच्या कायादिविज्ञानगम्याश्च लोकस्य । एवमतेऽपि लोकप्रसिद्धिमात्रेणोत्- पादादयः खभावनाविद्यमाना अपि भगवता तथाविधविनेयजनानु- ग्रहचिकीर्षुणा निर्दिष्टा इति। अत एवोक्तम्- त्वनायुमांसास्थिसमुच्छ्राय च उत्पाद्य संज्ञां मम पत्निरेषा। मूढ़ा हि बाला जनयन्ति रागं स्त्रियो न जानन्ति यथैव मायाम् ॥ यथा कुमारी सुपिनान्तरस्मिन् सा पुत्रजातं च मृतं च पश्यति । जातऽतितुष्ठा मृति दौर्मनस्थिता तथोपमान् जानथ सर्वधर्मान् ॥ यथैव गन्धर्वपुर मरीचिका यथैव माया सुपिनं यथव । खभावशून्या तु निमित्तभावना तथोपमान् जानथ सर्वधर्मान् ॥ संस्कृतऽसंस्कतसर्वविविक्ता नास्ति विकिल्पन तेषामृषीणाम् । सर्वगतीषु असंस्कृतप्राप्ता दृष्टिगतहि सदैव विविक्ता ॥ नित्यमरता अदष्ट नमूढाः तस्य सभावसमाहितचित्ता एष समाधि बली बलवन्तो यो इमु जानति शून्यकर्थािन् ॥ इति ।