१२५ संस्कृतपरोक्षानाम सप्तमं प्रकरणम् कथं पुनर्नास्तीति प्रतिपादयन्नाह- - उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥३२॥ तत्र यथा। अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत् कथम् । इत्यादिनोत्पादः स्वात्मानं नोत्पादयति । एवं निरोधोऽपि स्वात्मानं न निरोधयति। कथमिति उच्यते । अनिरूद्धो निरोधोयं स्वात्मानं नाशयेत् कथम् । अथ नष्टो नाशयति नष्ट किं नाश्यते पुनः ॥ इति सममुत्पादेन वक्तव्यम् । एवञ्च स्वात्मना न निरोधोऽस्ति । निरोध इदानी परात्मनापि नास्ति । कथं । तत्र यथोत्पाद गदितमन्य उत्पादयत्येनमित्याद्य वं निरोधेऽपि वक्तव्यम् । अन्यो विनाशयत्येनं नाशो यद्यनवस्थितिः । अथावनाशो नष्टोऽय सबै नश्यतु ते तथा ॥ इति ॥ । तदेवं पगत्मनापि निरोधो न संभवतीति नास्ति निरोधस्य निरोधः ॥ अथ मन्यसे नास्थ्य व निरोधस्य निरोध इति तदयुक्तम् । यदि हि निरोधस्य निरोधो न स्यात्तदा निरोधरहितत्वात् संस्कृतलक्षणमवहीयते तदेवं यदि विनाशस्य विनाशः परिकल्प्यते तथापि न युक्तो विनाशः । अथ न परिकल्प्यते तथापि न युक्त उति। कथं विदानो विनाशो योक्ष्यते परस्य । अथ स्यात्तथाप्येवमेव विचार सति विनाशो (भवतोऽपि ) न युज्यते । ततो (य ) उभयोर्दोषो न तेनैकश्चोद्यो भवतीति । उच्यते, नैवेदं चोद्य समापतति । किं कारणम्। ये खात्मना नि:स्वभावा भावास्ते च नि:स्वभावा एव सन्तो कालानामिदं सत्याभिनिवेशिनां व्यवहारपथमुपयान्ति अविचारप्रसिद्ध नैव न्यायनेति तेषु नास्ति यथोदितविचारावतारोऽस्माकम् । मायाखपगन्धर्व-
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१४९
दिखावट