१२६ मूलमध्यमककारिका नगरादिवस्तु लौकिकाः पदार्थाः निरुपपत्तिका एव सन्तः सर्वलोकस्या- विद्यातिमिरोपहतमतिनयनस्य प्रसिद्धिमुपगता इति परस्परापक्षयैव केवलं प्रसिद्धिमुपगता बालैरभुपगम्यन्त। यथोक्तं शतके- अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकः । धूमिकान्तः प्रतिश्रु त्कामरोच्यभ्रः समो भव ॥ इति ॥ तस्मात् सत्युत्पाद उत्पाद्यं सत् पुनरुत्पाद्य उत्पादः। इति निरोधे निरोध्य सति निरोध्ये निरोध इत्येवं लौकिकस्य व्यवहारस्याभ्युपगमात्। कुतोऽस्मत्पक्षे समप्रसङ्गिता भवितुमर्हति । यस्तु विनाशस्याहेतुकत्वमभ्युपत्य क्षणिकतां संस्काराणामाह, तस्य निहतुकत्वात् वपुष्यवदिनाथाभावात्, कुतः क्षणिकत्व भावानां सेत्- स्यति। कुतो विनाशरहितानां संस्कृतत्वमपोति सर्वमेवासमञ्जसं तस्य जायते। जातिप्रत्ययं जरामरणं संस्कृतलक्षणानां च संस्कारस्कन्धान्त- आँवं वर्णयता भगवता ननु सहेतुकवं स्पष्टमादर्शितं विनाशस्य। जाति- मात्रापेक्षत्वाच्चास्य क्षणभङ्गोऽपि सुखसाध्य इति सर्व सुस्थ जायते । अथ स्यात्, विनाशो हि नामाभावो, यश्चाभावः किं तस्य हेतुना कर्त्तव्यम् । अतो निर्हेतुको विनाश इति । ननु च भावेऽपि हेत्वाभावप्रसङ्गो भवति । भावा हि नाम विद्यमानो, यश्च विद्य- मानस्तस्यैव (किं) हेतुना प्रयोजनम् । न हि जातं पुनरपि जन्यते । तस्मात् सर्वत्रैव हेल्वभावप्रसङ्गादयुक्तमेतत् । अपि च । यथोत्पादः सहेतुकः पूर्वमभावात् पश्चाच्च भावात्। एवं विनाशोपोष्यताम् । विनाशो हि न सर्वदा भवति । उत्पादात् पूर्वमभावात्पश्चाच्च भावात्। यच्च प्यते यश्चाभावस्तस्य किं हेतुमा यस्मान्न वयं विनाशस्य हेतुना किं चित् क्रियमाणमिच्छामः । किं तहि विनाश एव क्रियते इति वर्णयामः । नव वं सति क्रियमाणत्वाविनाशोऽपि भावः प्राप्नोतीति चेदिष्यते एवैतत् । कर्तव्यमिति तदयुक्तम् ।
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१५०
दिखावट