सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षानाम सप्तमं प्रकरणम् १२१ English Translation-It has been proved before with reference to Utpada,(origination) that it can produce neither itself nor others. The same sort of argument may be appli- ed here to state that Vinasa ( destruction ) itself is not proved and it cannot destroy others. | 29 ॥ तत्र- - अपि च। निरोधो नाम यदि कश्चित् स्यात् स सतो वा भावस्य स्यादसतो वा। सतश्च तावद्धावस्य निरोधो नोपपद्यते । खभावादप्रच्युतस्य भावस्य निरोधो न युक्तो, यस्मात् । एकत्वे न हि मावश्च नामावश्चोपपद्यते ॥३०|| निरोधो हि नामाभावः । स यस्य भवति स नैव भवति । ततव सतो भावस्य निरोधो इति ब्रूवता भावाभावयोगेकाधिकरणताऽभुपगता भवति। एकत्वे सतुभयं न युज्यते। यदि तदानी भावः स्यात् तदा निरोधनाभावेनावशाद्भावव्यपदेशोऽयुक्ताः । अथाभावः सोऽप्यस्य न युज्यतेऽभावविरोधिना भावरूपेणावियोगात्। तस्मादेकत्वे सति भावाभावयोः स पदार्थो नैव भावी नाप्यभाव इति युज्यते। अथ वा परस्परविरुद्धत्वादालोकान्धकारवदेकत्वे सति न हि भावश्च नाभावश्चोप- पद्यते। एवं तावत्सतो भावस्य निरोधो न युक्तः । मञ्जव्याख्या ॥ साम्प्रतञ्च विनाशासम्भाव्यं प्रतिपादयितुभारभते । विनाशस्तु ध्वंस एव इति सर्वानुभवसिद्धः। तत्रेदं विचार्याते किं सतो विनाशः भवता- मभिमतः, असतो वा? नाद्यः कल्पः समुपयुज्यते यतः कालिक- निरोधाप्रतियोगित्वमेव सत्त्व वक्तव्यम्। तथा च यत् सत् तत् सदेव, १६