न संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् श्रावयति अदृष्टमपि दर्शयति । 'यः प्रतीत्यसमुत पाद पश्यति स सर्व पश्यति' इति भगवतो मुखपद्मविनिर्गतां वाचमप्युपेक्षमान: दृष्टस्त्वमेव अपरो भगवान ईश्वरः सञ्जात: इति विचारप्रतिपक्षतापि भवति समुपयुज्यते वुद्धपादारविन्दामन्दमकरन्दसन्दोहानन्दितमनो- मधुकराणामस्माकमिति। अत्रोचते, अविज्ञातभगवहचोनिगूढाभि- प्रायस्य कुतर्कान्धजालाछादिताननस्य सुतरामेव यथार्थवस्तुस्वरूपावा- वोधानभिष्ज्ञस्य भवतः अस्थाने खलु प्रलापः सञ्जातः । यतो न वय भगवत्सिद्धान्तित प्रतीत्यसमुत्पाद कथमनप्यङ्गोकुर्मः । अपि तु कृष्णकाचावृतनयनेन निखिलमेव विचित्रमपि विश्व विहिततिमिरा- वगुण्ठनमिव केवलमसितमवलोक्यते यथा तथैव खोययुक्त्याभास- समाच्छन्नचेतसा भवतापि प्रतीत्यसमुत्पादसिद्धान्तः अन्यथा मन्यते इति । यस्मात् सर्वथा नि:स्वभाववस्तूनां सखभावत्व प्रकल्प्य प्रतीत्य- समुत्पादोऽभिलष्यते भवता। तदेव च न सङ्गच्छते, तथा च सस्व- भावत्व चेहस्तूनां तदा केनचित् स्वभावन अवश्यमेव भवितव्यम् । खभावश्च सदसच्चेति हिंधैव परिकल्पयितु योग्यः। तथाच यदि सदेव वस्तु तर्हि प्रतीत्यसमुत्पादः निरर्थक एव स्यात्, यतो उत्पादन सत्त्वमेव वस्तूनां व्यवस्थापयितव्यम् । किन्तु सत्त्व यदि वस्तूनां खभाव एव स्यात् तर्हि विनैव प्रतीत्यसमुत्पाद वस्तूनां सत्त्व तिष्ठतौति कत्वा किमर्थं पुनस्तषामुत्पादः परिकल्पनीयः स्यात् ? असत्वभावश्चेत् वस्तु तदापि प्रतीत्यसमुत्पादो कल्पयितुन युज्यते। असतां वध्या- पुत्रादीनां कुत्राप्युत्पत्त्यदर्शनात् असतो उत्पादस्यासिया प्रतीत्य- समुत्पादः किमर्थं स्वोक्रियते ? नहि प्रतीत्यसमुत्पादन वस्तूनां खभावोऽन्यथाकर्तुं शक्यते।। न वा सदसदात्मक वस्तु भवितुमर्हति, आलोकान्धकारयोरिव परस्परविरुद्धसदसतोः कस्यापि स्वभावत्व न ग्रहणानहत्वात्। नापि न सत् नाप्यसत् इत्यपि कश्चित् प्रकार: बस्तूनां कल्पयितु योग्यः । तस्मात् वस्तूनां स्वभावविशेषः कोऽपि नास्ति इत्येवमस्माकं सिद्धान्तः । एवञ्चेत् सदपि नोत्पद्यते असदपि नोत्पद्यते इति विचारवलस्थापितः अस्माक' पक्ष। नि:स्वभावत्वञ्च वस्तूनां १२
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/११३
दिखावट