संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् ८१ गम्यमान अनागतस्य वर्तमानान्तर्गतत्वासम्भवेन च विरोधादेव अनुत्पन्नमुत्- पद्यते इति नैव सङ्गच्छते। उत्पन्नानुत्पन्नव्यतिरिक्तस्य उत्पद्यमानस्य च अभावात् उत्पद्यमानमुत्द्यते इत्यादि नैव युक्तम्, किञ्च उत्पद्यमान- मुत्पादयतीति भवदभिमतं चेत् निष्प्रोयजनत्वात् वृथैव तदुत्पादनम् । नहि वर्तमान वस्तु पुनर्वर्त्तमानतया प्रतिपादन सप्रयोजनम् । वर्तमानकालीनत्वाङ्गीकारणव उत्पादप्रयोजनसिद्धत्वात् कथमुत्पद्य- मानमुत्पद्यते इत्युक्तिः सङ्गच्छते ? तस्मात् परमपि उत्पाद उत्- पादयतीति मनोरथविकल्पितं निःसारमेव भवदच इत्यभिप्रायेणाह नोत्पद्यमानमिति । उत्पाद उत्पद्यमान' वस्तु उत्पादयेत्, उत्पन्नं वा उत्पादयेत्, अनुत्पन्न वा उत्पादयेदिति त्रिधा विभज्य विचार्य्यते। उत्पाद्य- तयाभिमतस्य एतत्रयातिरित्रावस्थाभावात् । अत्र च तुल्ययुक्तिकतया स्वकीयवक्तव्यस्पष्टीकरणाय द्वितीयाध्यायोक्तं स्मारयन्नाह गतागतैरिति। तत्रापि गम्यते इत्यनेन गतिक्रियाकर्मतया अभिमत तावत् किमिति विचारणायां गतमगत गम्यमानञ्च ति त्रिधैव विभज्य विचारः कृतः । तत्र गत न गम्यते। गतस्य अतीततया गमनस्य च वर्तमानतया विरोधात्। एवमगतमपि न गन्तु शक्यते, अगतस्य अनागतकालीनत्व न तत्र वर्तमानकालीनगमनासङ्गतः। एवं गम्य- मान गम्यते इत्यपि अनुपपन्नमेव, अतीतानागतकालीनयोः गतागतयो- र्व्यतिरिक्तस्य गमनविषयीभूतस्य गम्यमानस्यासम्भवात्। तथाहि गमनक्रिययाक्रान्त यत् तदेव गम्यमानञ्चत् तस्यापि गमनक्रिया- ग्टहीतत्वादतीतत्वमेव। नहि गमनक्रिययानाक्रान्तस्य गम्यमानत्व निर्वक्तुं शक्यते, उदासीनस्यापि गम्यमानत्वप्रसङ्गाद्गमनक्रिययाविषयो- करिष्यत् यत् तदेव गम्यमानञ्चत् तत्तु अनागतमेव, साम्प्रतमपि गमनक्रिययानाक्रान्तत्वात्। नच तादृशे अर्थ गम्यते इति प्रयोगः सङ्गच्छते, अनागतवर्तमानयोर्विरोधात्। अत्रायमाशयः, गमन' नाम उत्तरदेशस योगानुकूलव्यापारः । च चरणोत्क्षेपरूपश्चेष्टाविशेषः । तस्यैव व्यापारस्य फलमुत्त्तरदेशसयोगः । तादृशस योगवत्त्वादेव ११ > स
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१०५
दिखावट