सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ मूलमध्यमककारिका . ग्रामादेः कर्मत्व गमिक्रियायाः। गम्यमानमपि अत्र गमनक्रियाकम्मै नान्यत्। एवञ्च गमधात्वर्थतावञ्छ दकीभूतोत्तरदेशस योगरूपफलशाली यदा भवेत् तदैव ग्रामः कर्मतया ग्रहणीयः स्यात् । तथा च तादृश- कर्मतया ग्रहणकाले गमनक्रियायाः निष्पन्नत्वात् तस्य अतीतकालीनत्वमेव स्यात् । तादृशक्रियायाः अनिष्पन्नावस्थायाञ्च पुनर्गमनक्रियाकर्मत्वेन ग्रहणायोग्यतया अनागतत्वमेव स्यात्। तथाच कथमपि वर्तमान- कालीनतया गम्यमानं नाम किञ्चित् प्रतिपादयितुं न शक्यते, एतदेवोक्त गम्यमानगतागतेरित्यादिना। प्रपञ्चितञ्चैतत् हितोये अध्याये स्वयमेव प्राचार्येण इति नेह प्रपञ्चरते। एतत्तु दृष्टान्तस्थानीयतया प्रोक्तम् । प्रकृतेऽप्यत्र उत्पन्नानुत्पन्नातिरिक्तस्य उत्पद्यमानस्य अभाव एव । तथाहि उत्पत्तिक्रिययाक्रान्तमुत्पद्यमानमिति व्यपदिश्यते, अनाक्रान्त वा तपदिश्यते ? प्रथमे कल्प उत्पत्तिक्रियाफलभूतस्य प्रादुर्भावस्य अनन्तरमेव उत्पद्यमानमिति व्यपदेशो युज्यते । अन्यथा उत्पत्ति- कियाफलशून्यस्य उदासीनस्यापि तदानीमुत्पद्यमानत्वव्यपदेश-सम्भवः स्यात्। तथाच तदानोमुत्पादस्य परिनिष्पन्नरूपतया अतीतत्वमेव, न वर्तमानत्वम् । एवञ्च उत्पत्तिकियाफलाद् प्रागव यदि उत्पद्य- मानमिति व्यपदिश्यते तदापि तदानीमुत्पादस्यापरिनिष्पन्नतया भाविकाले च तनिष्पत्तिसम्भवेन तस्य अनागतत्वमेव स्यात्। तथाच उत्पन्नमनुत्पन्न वा विहाय उत्पद्यमानमिति किमपि लव्धुं न शक्यते। उत्पन्न चोत्पद्यते इति तु नेव शक्यते वक्तुम् । अतीत- कालोनत्ववादिना उत्पन्नशब्देन उत्पादितस्य तदानीमतीतकालीनत्व- वोधनात् न तथाविध अर्थे वर्तमानकालवोधकस्य उत्पद्यते इति प्रयोगस्य कथमपि सम्भावना स्यात्, अतीतवर्तमानयोविरोधादिति तात्पर्य्यम्। अनुत्पन्नमुत्पद्यते इत्यपि नैव वक्तुं शक्यते अनागत- वर्तमानयोविरोधात्। तथाच उत्पन्न उत्पद्यते, उत्पद्यते इति ' नैव सम्भवति, उत्पन्नानुत्पन्नव्यतिरिक्तस्य उत्पद्यमानस्य असम्भवाद् उत्पद्यमानमुत्पद्यते इत्यपि नैव युक्तम् । तस्माद उत्पादः पर जनयतीति न सिद्धम् । च