सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलमध्यमककारिका तत्र यथा गत न गम्यते, अतीतवर्तमानयोविरोधात् । नाप्यगत गम्यते, अनागतवर्तमानयोविरोधात्। नापि गम्यमान गम्यते गता- गतव्यविरिक्तगम्यमानानुपलम्भादित्युक्तम् । एवमुत्पद्यमानो भावो नोत्- पद्यते उत्पन्नानुत्पन्न व्यतिरेकेनोत्पद्यमानाभावात् । उत्पन्नोऽपि नोत्पद्यते। अतीतवर्तमानयोर्विरोधात् । उत्पन्न इत्युपरतोत्- पत्तिक्रिय उच्यते। उत्पद्यत इति वर्तमानक्रियाविष्टः। ततश्चोत्पन्न उत्पद्यत इत्युच्यमाने अतीतवर्तमानयोरेकालता स्यात्। अनुत्- पन्नोऽपि नोत्पद्यतेऽनागतवर्तमानयोविरोधात् । तस्मादुत्पादः परमुत्पादयतीति, न युक्तम् । अत्राह उत्पद्यमानमेवोत्पद्यते नोत्पन्नं नाप्यनुत्पन्नमिति। अथ मन्यसे, उत्पन्नानुत्पन्नव्यतिरेकेणोत्पद्यमानास भवान्नोत्पद्यमान- मुत्पद्यत इति। एतच्च नास्ति यस्मादिहोत्पत्तिक्रियायुक्तमत्पद्यमान- मिति व्यपदिश्यते। तस्मादुत्पत्ती सत्यामुत्पत्तिं प्रतीत्योत्पद्यमान- सिद्ध रुत्पद्यमानमेवोत्पद्यते। तच्चोत्पद्यमानमुत्पाद उत्पादयतीति । मञ्ज व्याख्या ॥ साम्प्रत परमपि उत्पादः नोत्पादयितुं शक्न यात् । तथाहि वस्तूनां बाध्वा खलु भदद्भिरङ्गीक्रियते। अतीतमनागत वर्तमानञ्च ति। तत्र अनुत्पन्नं वस्तु अनागताध्वप्रविष्टम्। उत्पन्नं पुनरतीताध्वान्तार्गतम् । उत्पद्यमानञ्च वर्तमानाध्वस्थितमिति इति भवतां सिद्धान्तः। एवञ्च उत्पादः उत्पद्यमान उत्पन्नमनुत्पन्न वा उत्पादयतीति विचार- णीयम् । यदि उत्पन्नमुत्पादयतीति मन्यते तदा विरोध: दुस्परिहरः स्यात् । उत्पन्नशब्देन अतीतकालीनत्वमवगम्यते । उत्पद्यते इत्यनेन च वर्त्तमात्वम्। तथा चातीतवर्तमानयोविरोधात् उत्पन्न: उत्पद्यते इति न सङ्गच्छते। अतीतस्य वर्तमानकालयोगासम्भवात । अनुत्पन्न नाम उत्पादः उत्पादयतीति चेत् अनागत वस्तु उत्पादय- तीति सिद्धान्तः आयाति। तत्रापि विरोधादेव न सम्भवति अनागतस्य उत्पादः। तथाहि उत्पादयति इति वर्तमानकालघटिततया