पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- रूपं नोपलभ्यते, अग्निहोत्रशब्दस्य तत्प्रख्यन्या- येन. नामधेयत्वात् , तदेतदने वक्ष्यामः, तथापि तस्योत्पत्तिविधित्वं स्वीक्रियते, अन्यथा नर्थक्या- पत्तेः । “दध्ना जुहोति' इत्यस्य च नानर्थक्यं गुणवि- धित्वात्। अतः “अग्निहोत्रं जुहोति"इत्ययं कर्मोत्पत्ति- विधिरिति युक्तम् । “ज्योतिष्टोमेन इत्यस्य च नानर्थक्य. म् , अधिकारविधित्वोपपत्तेः । अतः किमर्थं सम्भवति रूपवति वाक्ये कर्मविधाने तद्रहित तत् स्वीकार्यम् । किं च “दना जुहोति' इत्यस्य कर्मोत्पत्तिविधित्वे “पयसा जुहोति"इत्यनेनैतत्कर्मानुवादेन न पयो विधातुं शक्यते, उत्पत्तिशिष्टदध्यवरोधात । उत्पत्तिशिष्टगुणाव- रुद्ध हि न गुणान्तरं विधीयते, आकाङ्क्षाया उत्पत्ति- शिष्टेनैव निवृत्तत्वात् । अतस्तेनापि विशिष्टं कर्मान्तरं विधेयम् । तथा चानेकादृष्टकल्पनागौरखम् । “अग्नि- होत्रं जुहोति” इत्यस्य तु उत्पत्तिविधित्वे एतद्वाक्यविहि- तस्य कर्मणो द्रव्याकाङ्क्षायां युगपदेव खलेकपोतन्या- येन दना जुहोति” “पयसा जुहोति”इत्यादिवाक्यैर्गु- णा विधीयन्ते इति नानेकादृष्टकल्पनागौरखम् । अतः अग्निहोत्रं जुहोति” इत्ययमुत्पत्तिविधिः, “पयसा जुहोति' विनाऽपि यागोपकारकत्वस्य देवतासु कल्पनासम्भवानानेक-