पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः । इत्यादयस्तु गुणविधय इति युक्तम् । “सोमेन यजेत" इत्यत्र तु रूपवति वाक्ये कर्मोत्पत्तिविधाने स्वीक्रियमाणे न किं चिद् दूषणम्, पक्षद्रयेऽप्येकस्यादृष्टस्य तुल्यवा- त । तस्माद् युक्तं “सोमेन यजेत" इत्ययमेवोत्पत्ति- विधिरित्यलमनया अप्रसक्तविधिनिरूपणानुगतप्रपञ्चनि- रूपणचिन्तया। प्रकृतमनुसरामः । तत्सिद्धं 'विधिः प्रयोजनवन्त- मप्राप्तार्थं विधत्ते' इति । स च विधिश्चतुर्विधः-उत्पत्तिविधिविनियो गविधिः प्रयोगविधिधिकारविधिश्चेति । तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः-यथा- वाक्येषु यागकल्पनोचितेत्यर्थः । पक्षद्धयेऽपीति । यद्यपि परमतेऽनेकादृष्टकल्पनाऽस्ति तथाऽपि स्वमते समापतन्त्यदृष्ट- कल्पना तावत्परमते तुल्यैव, अधिका तु पूर्वमुक्तवत्याशयः । प्रयोगेति । यद्यप्याफरे चतुर्थपञ्चमाभ्यां प्रयोगविधि नि- रूप्य षष्ठेऽधिकारविधिनिरूपणमकारि इति प्रयोगविधेः पूर्व- निपात उचितः, तथाऽप्यधिकारिणं प्रति साङ्गप्रधानप्रयुक्तः प्रयोगविधिना कर्तुं शक्यत्वादधिकारिनिरूपणानन्तरंतयापारनि: रूपणमुचितामित्याशयेनेदम् । कृतं चाकरेऽपि प्रकृतिविकृतिस- म्बन्धिविधित्रयनिरूपणान्ते प्रयोगविधिव्यापारनिरूपण मेकादशद्वा- दशाभ्याम् । प्रयोज्यपरिमाणाधीननिरूपणत्वादधिकारिणस्तन्नि- रूपणात्माक् प्रयोज्यनिरूपणं तु न दोषायेति बोध्यम् । तत्रे. ति । मात्रशब्दो भिन्नक्रमः । कर्मस्वरूपबोधकतामात्रमुत्पत्तिवि-