पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- धित्वमिसर्थः । बोधस्य चानन्यसाध्यस्यैव फलत्वसम्भवादज्ञातबो- धकत्वमिति लभ्यते । अस्य च विधेः सहकारीणि मानानि प्रदेशभेदेन कृतकरि- ध्यमाणमूचनतया मूलकृतेहोपक्षितान्यपि सुखबोधाय प्रदर्शयामः- तत्रोत्पत्तिविध कार्ये-कर्योत्पत्तिः कर्मभेदज्ञप्तिश्च । शब्दा न्तरम् , अभ्यासः, संज्ञा, गुणः, प्रकरणान्तरम्-इत्येतानि साक्षात्प्रथमकार्य तत्प्रणालिकया च द्वितीय सहायतां भजन्ते । संख्या तु तेषामन्यतपेन कर्पोत्पत्तिपरताङ्गते विधौ तदुत्पाद्यकर्म- णि पृथकृत्वा निवेशस्वाभाव्येनानेकत्वं बोधयन्ती द्वितीये एव सहायतां भजते। यदि तु कचित्कर्टकपालादिगता संख्या वाजिनव- कोत्पत्तिपरतां विधेरापाद्य कर्म भेदयति तत्र गुणत्वेनैव भेद- कता न संख्यात्वेन पृथक्त्वनिवेशस्वाभाव्यानपेक्षणादिति बोध्य- म् । कर्मेति चात्र भावनोच्यते न धात्वर्थः, तेन कस्य चिद्धात्वर्थ- भेदकत्वाभावेऽपि कर्मभेदकत्वव्यपदेशो नानुपपन्नः । तत्रापर्यायघात्वन्तरनिष्पन्नाख्यातपदात्मकं शब्दान्तरं प्रसिद्ध यात्वर्थोपस्थापनपूर्वकं तदनुरक्त भावनां प्रतिपादयत्तद्भदाभिन्नामेव प्रतिपादयति । यथा “सोमेन यजेत" "हिरण्यमात्रेयाय ददाति" इत्यत्र । यद्यपि न गुणभूतधात्वर्थानुरोधेन प्रधान भूतभावनाया. माख्यातेक्यवशेनाभिन्नतया प्रतीयमानायां भेदकल्पनमुचितम् , न- चैकादृष्टकल्पनयोपपत्तावनेकादृष्टकल्पनं भावनाभेदनिबन्धनम् , त. याऽपि प्रतियोग्यधीननिरूपणस्याभावस्य प्रतियोगिभेदेनेव,अनेक- विषयांधीननिरूपणस्य ज्ञानस्य विषयभेदेनेव धात्वर्थाधीननिरूप. पाया भावनाया धात्वर्थभेदेन भिन्नाया एव प्रतीतेरनेकादृष्टक लपवागौरवं प्रमाणमुखत्वान दोषाय । यदि समस्तानीपोमप्रातिपः विकादुत्पन्नतद्धितवदरुणादिपदेभ्यः पृथक्भूतक्रीणातिवदनेक धातुनिष्प वेभ्यः पृथगभूत वाख्यावषदं श्रूयेत स्यात्तद