पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः। याः समूहालम्बनज्ञानवद् द्वित्वावच्छिन्नाभाववदा ऽनेकधात्वर्थविशिष्ट- मेकं भावनातत्त्वम् । इह तु एकैकधातुनिष्पन्नाख्यातेन निरपेक्षप्रा- तिपदिकप्रकृत्यर्थानुरक्ततया प्रतीयमानं भावनास्वरूपम् “अग्न ये कृत्तिकायै" इत्यत्र देवताकारकवद् नैकमवगन्तुशक्यम् । अथ ज्योतिष्टोमवाक्ये याजिश्रवणं यागानुवादत्वेन स्वीकृत्य केवलभावनाविधानमुच्यते, तदनुवादेन चोक्तवाक्ययोर्धा- त्वर्थानुरागविधिराश्रीयते । तन्न । फलवाक्यस्योत्पत्तिपरता. पागेव निरासाद् धात्वाधीननिरूपणाया भावनाया- स्तदन्वयमन्तरेणानुवदितुम् अयोग्यत्वात् । अत एव शब्दान्त- रगुणयोर्भेदकतायां विशेषसिद्धिः । गुणो हि पूर्वगुणानुरक्तरूपेण सम्भवदनुवादेऽपि यागादौ निराकास वादिना निवेशमलभमा- नो भेदको भवति । शब्दान्तरन्तु धात्वर्था ननुरक्तरूपेणासम्भवद- नुवादा भावनां धात्वर्थानुरक्तरूपेण बोधयत् पूर्वनयेन भेदयतीति । वस्तुतस्तु ज्योतिष्टोमवाक्यादिविहितभावनाननुरअकत्वेन वाक्यान्तरयोर्जाप्यमानौ धात्वी करणत्वेनान्वयं प्राप्नुत इति वाच्यं विधेयत्वात् । तत्तद्वाक्ये निरपेक्षकरणतयाऽवगतयोश्च ज्योतिष्टोमवाक्यगतयजिना लक्षणया युगपदुपादानात्करणयोः फले समुच्चय इति वाच्यम् । नच करणभेदो भावनाभेदमन्तरेण सम्भ- वति । सैव हि भावनेत्युच्यते यद्व्यापारव्याप्यतापतिपन्नं करण- वाभिमतं करणतां प्रतिपद्यते । दृश्यते च करणभेदे तदनुग्राहक- व्यापारभेदो लोके । एवं च ज्योतिष्टोमवाक्येऽपि भावनाभेदः स्या- व । एवं च निराकाझेऽन्वयासम्भवस्य गुणशब्दान्तरयोस्तुल्यत्वा- त्किमिति मानान्तरव्यवहार इति न शक्यम् । स्वरूपेणाविधे- याया भावनाया एकहायनीपिङ्गाक्षीशब्दयोस्तत्तद्रूपेण द्रव्यस्ये- व. धात्वर्थानुरक्तरूपेण विधेयत्वस्योभयत्र सम्भवे केन नै- राकासयमित्यत्र विनिगमकासम्भवाच्च । यद्धि परान्वयमपेक्ष्य