पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- विधिर्गोचरयति, सम्भवति तस्य बहुष्वपि वचःसु वहन्वयमपेक्ष्य विधिना बहुकृत्वो विषयीकरणम् । यत्र तु "चतुरवत्तं जुहोति"इ- त्यादौ सत्यपि शब्दान्तरे प्रकृतभावनाभ्यो यागीयहविःसम्बन्धेन जुहोत्यर्थे यागांशे प्रकृतबुद्धि पैति तत्रापि प्रक्षेपभावनाया: प्रकृतभावनाभ्यो भिन्नाया विधेयत्वादस्त्येव कर्मभेदः, अपूर्व भेदः परं नास्ति, “यैस्तु द्रव्यं चिकीयते"(१) इति न्यायेन प्रक्षे- पस्य गुणकर्मत्वात् । गुणासंक्रान्तविधिशक्तिकं समानार्थधातुनिष्पन्नमाख्यातान्त- रमभ्यासः । स च धात्वर्थभावनयोरुभयोर्भेदं बोधयति अ न्यथा वैयापातात् । यथा “समिधो यजति तनूनपातं यजति" इत्यत्र । न चात्र समिदादिदेवतासु विधिशक्तिसंक्र. मशाः, सति यागभेदे क्रमविनियुक्तमन्त्रप्रख्यापितदेवतासम्ब- न्धं निमिचीकृत्य समिदादिपदानां नामत्वेन गतिसंभवे धार वर्थविधि परित्यज्य गुणविधेरन्याय्यत्वात् । नच “वसन्तमृतू- नाम्" इत्यादिमन्त्रलिङ्गेन वसन्तादिदेवतानामपि प्राप्तेर्न स. मिदादीनामेव देवतात्वप्राप्तिरिति शक्यम् । सत्यपि देवतान्तरे समिदेवतासत्तमात्रेण समित्पदस्य नामत्वोपपत्तेः । अन्यथा ऽग्नि- होत्रपदे ऽप्यनुपपत्तेः। वस्तुतस्तु "आज्यस्य व्यन्तु" इति प्रदेयहविःसम्बन्धित्वे- समिधा प्रकाशनाद्यथा देवतात्वं प्रतीयते नैवं वसन्तस्य, पीतेर्देवतात्वं विनाऽपि सम्भवात् । यथा च विहितानुवा: दिवाक्यं विध्यनुसारेण नेतुमुचितम् एवं कृतानुमन्त्रणमन्त्र: (१) 'यैस्तु द्रव्यं चिकीर्यते गुणस्तत्र प्रतीयते तस्य द्र. व्यप्रधानत्वात् । इति सम्पूर्ण सूत्रम् (पूष्मी०अ०२पा०१सू०८५) अस्यार्थः-यैः कर्मभिः द्रव्यं संस्कार्यत्वेन चिकीर्ण्यते त्वों गुणः प्रतीयेत तस्य धात्वर्थस्य द्रव्यप्रधानत्वाद् द्रव्यं प्रधान यस्य तत्त्वात् । यथा - "ब्रीहीनवहन्ति तण्डुलान् ष्टि इत्यादौ वितुषीभावादिरूपदृष्टफलसंमवानादृष्टकल्पनेति । तत्र घा-