पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 उत्पत्तिविधिः। ९५ करणमन्त्रानुमारेण नेतुमुचित इति समिदादीनामेव देवता- त्वकल्पनमुचितम । अत एव प्रयाजानुमन्त्रणानामदृष्टार्थत्वे. न समुच्चयमङ्गीकृत्य पञ्चमे क्रमानियमः सिद्धान्तितः(२) । तस्माद्यु. तो भेदः । यागयोर्भेदव्यवहारश्च प्रयोगकृतः स्वरूपकृतो जाति कृतो वेत्यन्यदेतत् । यत्र त्वभ्यासेन कल्प्यमानकर्मान्तरस्य न स्वरूपलाभः, तत्र प्रकृतानुवाद एव स्वीक्रियते यथा, “य एवं विद्वा- म्पूर्णमासी यजते", "य एवं विद्वानमावास्यां यजने” इति विद- द्वाक्ययोः । यद्यपि धौवमसंयुक्तोत्पन्नमुपांशुयाजेनेवैतद्वचोवि- हिताभ्यां कर्मभ्यामपि लभ्यते, तथा ऽपि न देवतालाभः, द्विशेषसाधकमानाभावात् । नच “वानी पूर्णपास्यामनूच्येते वृध. न्वती अमावास्यायाम्" इत्यत्र पूर्णमास्यमावास्यापदाभ्यामिमे कर्मणी अनूय मन्त्रविधानान्मान्त्रवर्णिकदेवतालाभः शयः । आ- ज्यभागयोरनुवाक्यान्तरकल्पनाक्लेशापत्तेः । अनयोश्च कर्मणो- ज्याकल्पनापत्तेः । आसामृचामन्यतमयोर्याज्यात्वकल्पने ऽनु वाक्यासमाख्याविरोधापत्तेः । द्वयोर्द्वयोरनुवाक्ययोरेकैकस्मिन्क- मणि अन्याय्यविकल्पापत्तेश्च । लिङ्गक्रमाभ्यामाज्यभागाङ्गत्वेन प्र- त. (२) दर्शपूर्णमासयोर्याजमानकाण्डे “वसन्तमृतूनाम्" इत्यादयः 'प्रयाजानुमन्त्रा आनातास्तेषां नियतः क्रमोऽभ्युपेय आग्नेयोपांशुया. | जाधनमन्त्रणादिषु नन्नयत्यदर्शनादिति चेन्न । क्रमनियामकस्यात्रा- भावात् । न च पाठो नियामकः, शाखामेदेन पाठव्यत्ययदर्शनात् । नाप्यर्थो यवागूपाकन्नियामकः । अनियमस्वीकारेऽत्र यवागूपाकवद- नुपपत्त्यभावात् । तत्तद्यागीयविशेषादर्शनाल्लिङ्गस्याप्यसामर्थ्यात् । वाजपेयिकपशुसंस्कारन्यायेन प्रवृत्तिक्रमेण समिदनुमन्त्र- णाय गृहीतमन्त्रकशाखास्थानामेव मन्त्राणां तनूनपादादीनामनुम. स्त्रणमिति वाच्यम् । शास्त्रविहितप्रत्यासत्त्यनुग्राहकत्वेन प्रवृत्ति- समस्य अनेकशाखागतोक्तानुमन्त्रणमन्त्रेषु प्रत्यासत्त्या अविधाना: प्रवृत्तेरिति । नव