पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तीयमानानां वाक्येनान्यत्र विनियोगायोगाच्च । आज्यभागाग- त्वेन प्राप्तानां मन्त्राणां पूर्णमास्यमावास्ययोः कालयोः कर्मणो- ची व्यवस्थापनेन नियमविधित्वे सम्भवति तदङ्गत्वबाधेनान्या इत्यापूर्वविधैरन्याय्यत्वाचः । अथ यदा यादिवाक्येष्विमे अन्य द्रव्यदेवताविधानाद् रूपलाभ इत्युच्येत । तन्न । प्राप्तकर्मानुवादे- नानेकगुणविधाने वाक्यभेदान, आग्नेयवचस्युद्देश्यद्वयनिमित्तस्य वाक्पभेदस्यावर्जनीयत्वाच्च । अथ “सर्वेभ्यः कामेभ्यो दर्शपूर्णमा- सौं” इत्यत्र दर्शपूर्णमासपदनिर्दिष्टयोर्विद्वद्वाक्यस्थकर्मणोश्चतुर्थ्या सर्वे कामा देवतापरत्वेनोच्यन्ते इति चेत् । न । “एकैकस्मै का- मायान्ये यज्ञक्रतवः" इत्युपक्रमगतश्रुत्यनुसारेणास्याश्चतुर्यास्ताद- _चतुर्थ्यर्थत्वेन देवतापरत्वासम्भवात् । अथासंयुक्ताज्यस्योक्त न्यायेनैत्योः कर्मणोई विप्लेनावगतस्यानुवादेन 'सर्वस्मै वा एतद्य- शाय"इति वचसि चतुर्या सर्वयज्ञात्मकदेवताज्ञापनानानुपपत्ति रिति चेन्न । तथा सत्युपांशु पाजेऽपि चतुर्थीसमर्पितदेवतया मा- ववर्णिकदेवतावाधे सति "विष्णुरुपांशु यष्टव्यः" इत्यादिनि- शानुपपत्तेः । जौहवोपभृतवचःसु प्रयाजानुयाजपदोत्तरचतुविदि. हापि चतुर्यास्तादयपरत्वौचित्याच्च । अथाव्यक्तत्वसामान्ये. न सौमिकविध्यन्तातिदेशादनयोरुद्भिदादिवद्भवतु देवतालाभ इति चेन् । दर्शविधिगतविध्यन्तेन निराकाङ्क्षीभवद्भिदोक्षणीयादि-- भिर्विशिष्टां भावनां विदधतः सोमविधेर्विध्यन्तेन निराकाझी. भवद्भ्या कर्मभ्यां विशिष्टां भावनां विदधति दर्शविधौ परस्परा- श्रयापत्तेः । तादृशभावनाया ऐष्टिकप्रातःकाले ऽनुष्ठानानुपपत्तेश्च । प्रतिफ्यप्रविष्टायां यदीष्टिः समाप्यते पुनः प्रणीय कृत्स्नेष्टिः कर्तव्येति वचोवैयपित्तश्च । नचैवमपि “दर्शपूर्णमासाभ्या स्वर्गकामो यजेत" इति वाक्ये स्वर्गकामपदं सर्वकामवाक्य प्राणानुवादमाश्रित्य "दर्शपूर्णमासाभ्याम्" इत्येतद्भवत्यनयोर्देव,