पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः। तासमर्पकं चतुर्यन्तस्याप्येवरूपसंभवादिति वाच्यम् । तथा सति हिमयाजादिविधेः सर्वकामबिध्येकवाक्यत्वकल्पनेनैव प्रयाजादीनां दर्शाधनत्वं सिध्येत् । नच सन्निहितगोदोहनादिविध्येकवाक्यत- या नैराकाझ्यसम्भवे दस्थेनैकवाक्यत्वकल्पना घटत इति तेषां तदङ्गत्वं न स्यात् । यदि वा स्याद् विद्वद्वाक्यविहितयागाङ्गत्वे वि- कार एव स्यात्, सर्वकामवाक्यगतदर्शपूर्णमासपदस्य तत्मख्य- न्यायेन(१) तन्मात्रनामत्वात् । तथा सत्याग्नेयदर्शनानुपप- वा- (१) तम्न्यायबोधकं सूत्रं यथा-"तत्प्रख्यं चान्यशास्त्रम्" इति । तस्य विधित्सितस्य गुणस्य प्रख्यं प्रख्यापकं प्रापकमिति यावम्, अभ्यशास्त्रं चेदस्ति तद्गुणसमर्पकत्वेनाभिमतः शब्दः कर्मनामधेयं भवतीति तदर्थः। यथा “अग्निहोत्रं जुहोति" इत्यत्राग्निहोत्रशब्दस्य कर्मनामधेयता। मनु नेदं युक्तम् अप्रसिद्धकर्मनामत्वकल्पनापेक्षया प्रसिद्धत्वेन प्रवृत्ति विशेषकरत्वेन च गुणविधानस्यैव न्यायानुसृतत्वात् । नच व्यम्-अग्निहोत्रशब्दस्य क्वचिदप्यप्रसिद्धिरिति | समुदायस्य.क. चिस्प्रसिद्धयभावेऽपि अवयवाग्निशब्दस्यार्थविशेष प्रसिद्धत्वेन तद् आ- वायैव समुदायस्य प्रसिद्धार्थकत्वसम्भवात् । किञ्च नामधेयत्वे रूप- राहित्यप्रसङ्गः । नच "सर्वस्मै वा यज्ञाय गृह्यते यद्धृवायामा- ज्यम्" इत्यनेन ध्रौवाज्यस्य साधारणत्वेन रूपवत्त्वसिद्धिरिति वा- व्यम् । उक्तरीत्या द्रव्यलाभेऽपि देवतायाः सर्वथाऽलाभात् याग- स्य च द्रव्यदेवतोभयात्मकत्वात् । ननु गुणविधित्वे मत्वर्थलक्ष- णापत्योद्भिदधिकरणविरोधेन तस्य नामता । नच होत्रशब्दं भा- धार्थकत्रन्प्रत्ययान्तमाश्रित्य 'अग्नये होत्रम्'इति व्युत्पत्त्या कर्म- सामानाधिकरण्यसिध्द्या न मत्वर्थलक्षणाऽऽपत्तिरिति वाच्यम् । चतुर्थीतत्पुरुषस्य प्रकृतिविकृतिभाव एव नियमनेन तस्यात्रा- प्रासः । नापि कर्मसाधनत्वेन हविष्परकं स्वीकृत्य बहुव्रीहिणां, क. मैंसामानाधिकरण्योपपादनं युक्तम् । वैयधिकरण्ये बहुव्रीहेरनाश्रय पादिति चेन्न । “सप्तमीविशेषणे" इति सूत्रस्य सामान्यतो शापक सुवमाश्रित्य वैयधिकरण्येऽपि उक्तसमासस्य साधुत्वेन बहुवीहिणे- मत्वर्थक्रोडीकाराल्लक्षणाया अप्रासः । इति चेन्न । गुण-