पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- चिः(१), अतस्तृतीयान्तचतुर्थ्यन्तयोस्तुल्यरूपत्वेऽपि प्रकृते कृती यान्तत्वमेव वक्तुं युक्तम् । तस्मान्न यागविधिः संभवतीत्यवगतपुर मास्थमावास्यासम्बन्धानां यजीनां समुदायावाभ्यां वचोभ्या मन्यते । नच वैयर्थ्यम् । एतद्वाक्यावगत्तसमुदायद्वित्वाभिप्रायेण नि तार्थके "दर्शपूर्णमासाभ्याम्" इति पदे सति तत्समाना विकरणेन यजिना आग्नेयादीनां केषां चिदेव फलसम्बन्धसिद्धे। अन्यथा छुत्पत्तौ कालयोगिषु द्विवचनासम्भवात् , द्वित्वयोगिषु चाज्य भागादिषु प्रातिपदिकासंभवात् , अनिर्मातार्थके तस्मिन् यजिना सनिहितानां सर्वयागानां फलसम्बन्धः स्यात् । नच यागान्तरव्यावृत्तेन नित्यवद् द्विदेवत्यत्वैकादशकपालद्रव्यक- त्वात्मकैकोपाधिनाऽग्नीपोमीयन्द्राग्नयोत्विव्यपदेशाईत्वात्तयोरेव स स्यादिति शक्यम् । ततो ऽप्येकविधदेवता(२)हविरन्वयिनोराग्ने- वयोर्मेदमते झटिति तदर्हत्वप्रतीतेः । स्यात्तर्हि तयोरेव फलसम्बन्ध इति चेत् । न । यतो द्वित्वान्वयिनोरपि कालसम्बन्धं निमित्तीकृत्य प्रातिपदिकाभिधेयत्वं कल्प्येत, क्लृप्तं तु तद् विद्वद्वाक्यविहितयोः । सद्तयोरसप्तम्यन्तयोः पूर्णमास्यमावास्यापदयो मत्वेनैवानिहो- त्राघारवत्पतीतेः, संभवति च तयोर्विद्वत्पदोपाधिनैव द्वित्वान्व. वित्वम् । भवेद् अनयोरेव तर्हि प्राधान्यमिति चेत्, न । यतो जयोः प्रातिपदिकप्रकृती क्लृप्तायामपि द्विवचननिर्देशो विधि- वाक्यद्वारकं विद्वत्पदसंबन्धं निमित्तीकृत्य कल्प्यः, आज्य- विधान स्वाक्रियमाणे वाक्याविधानं स्यात् । तञ्च सम्भवति श्री- तार्थविधाने अयुक्तम् । तदुक्तम्-वाक्यार्थविधिरन्याय्यः श्रौतार्थविधि- सम्भवे । वाक्यार्थः पदान्तरार्थः इति । किञ्च विधित्सितोऽग्निक. फे गुणो मन्त्रवर्णाद् “अग्निोतिः-" इत्यादेः प्राप्त इति न धिधातु शक्यते, तस्मादग्निहोत्रशब्दः कर्मनामधेयमिति । (१) प्रयाजोदीनां दर्शार्थत्वानुपपत्तिरितिपाठोऽधिकः पुस्त- कान्तरे। १२) एकविधिदेवतति