पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः ।

. भागयोश्च द्वित्वान्वये क्लुप्ते ऽनुवाक्याद्वारककालसम्बन्धं निमि. तौ कृत्य कर्मधारयेण प्रातिपदिकप्रवृत्तिः कल्प्येति विनिगमका भावो भवेत्तर्हि स्ववाक्ये वाक्यान्तरे वाऽवगतकालसम्बन्धानामेव यागानां फलसम्बन्धः, तत्र प्रातिपदिकसंभवात् । नच द्विवचना- नुपपत्तिः। समुदायगतस्येव कालगतस्य द्वित्वस्योक्तिसंभवात् समु- दायकालयोर्गुणत्वाविशेषादिति चेत् न, समुदायसमुदायिनोरनति- भेदेन समुदायगतसङ्ख्यायाः समुदायिगतत्वोक्तिसंभवात् , कालस्य तु भेदात् । नन्वनतिभिन्ननिष्ठस्येवातिभिन्ननिष्ठस्यापि धर्मस्य ना- न्यत्रासंभवः, षष्ठ(२) द्रव्यभेदे ऽपि क्रियाभेदाभावोक्तः । रूपभे- देन संभवासंभवयोरुपपादने विशेष्यतावच्छेदकीभूतरूपावच्छे- देनान्यत्र दृष्टः संख्यान्वयः प्रकृते ऽनुपपन्नः । नहि समुदा- यसमुदायिनोरभेदे ऽपि समुदायरूपेणान्वययोग्या संख्या यागरू- घेणान्वेतीति वक्तुं शक्यम् । तस्माद्विशेष्यभूतप्रकृत्यर्थगतत्वायोगे - (१) षष्ठे तृतीयपादीयतृतीयाधिकरणे प्रतिनिधिविचारप्रस्ता- वृभूते दर्शपूर्णमासादिषु मुख्यासम्भवे समाश्रीयमाणं नीवारादि- द्रय क्रियां भिनत्ति नवेति विचारे द्रव्यस्य क्रियारूपत्वेन रूपभेदे रूपिणोऽपि भेदावश्यंभावात्प्रतिनिधीयमानं द्रव्यं प्रकृतात्कर्मणः कर्मा- न्वरत्वमापादयति । तदुक्तम्- द्रव्यस्यैव क्रिया नाम रूपं नार्थान्तरं ततः ॥ तदात्मनश्च तद्भेदे न भवेद्भिन्नता कथम् ॥ इति प्राप्त उच्यते-क्रियाया जात्यादिवदाश्रयव्यक्तिभेदेऽपि अभि अबुद्धिविषयतया द्रव्यभेदे ऽपि एकत्वान्न तस्या भेदकं प्रतिनिधिद्र व्यमिति । तदुक्तम्. तदात्मनोऽपि त्वस्यैव व्यतिरेकः कियानपि ।। जातिवद् गुणवश्चातस्तद्भदेऽपि न भिद्यते ॥ इति ।