पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- सत्यानर्थक्यतदकन्यायेन(२) विंशतिर्गाव(३) इत्यत्र विंशतिपदो- चरविभक्त्यभिहितैकत्ववद् द्वित्वमपि विशेषणे समुदाये ऽन्वेतीति वाच्यम्, तुल्यं च विशेषणत्वं कालेऽपीति किमिति तद्गत सङ्ख्याऽभिधानमिति चेत् न । यतो न वयमनतिभेदात्समुदायगत सङ्यायाः समुदायिषु संभवं ब्रूमः, किंतु “राजसूयेन यजेत"ई- त्यादौ विशेषणान्वयिसंख्याया विशेष्यान्वयोक्तिदर्शनात्प्रकृतेऽपि विशेषणगतसंख्याया विशेष्यान्वयं स्वीकुर्वतः केन संसर्गेण विशे- (२) वाजपेयप्रकरणे "सप्तदशारनिर्वाजपेयस्य यूपो भवति" इति श्रुतम् । तत्र सप्तदशारनिशब्दोदितस्योर्ध्वमानस्य वाजपेयाङ्गता सा- निध्यात् , किञ्च प्रकरणस्याप्येवमनुग्रहः । नच कर्मणोऽमूर्तत्वेन नो- कमानसम्बन्धाहतेति वाच्यम् । साक्षात्सम्बन्धानहत्वेऽपि परम्परया तत्सम्बन्धिखादिरमूर्ध्व यत् षोडशिपात्रं तत्र सम्बन्धद्वारा तस्य तद हत्वात् इति चेन्न । सप्तदशारनियंप इति सामानाधिकरण्याद् यू. फेन तस्य साक्षादन्वयः । सच यूपः पशोरङ्गमिति तद्वारा मानमपि पशोरङ्गम् । पशोश्च वाजपेयाङ्गत्वात्पशुद्वारा तद् वाजपेयाङ्गम् चिाज फेये च सत्यपि सानिध्ये यागस्य साक्षादन्वयायोग्यत्वात् परम्परान्वये स्वीकर्तव्ये उक्तरीत्या लक्षणाश्रयणं विनतस्य स्वीकार उचितः । अ- न्यथा यूपशब्दस्य षोडशिपात्रावाचकत्वेन षोडशिग्रहलक्षणाऽऽश्र- वणीया स्यात् । प्रकरणं तूकरीत्या वाजपेयसम्बन्धनाविरोधिवाअपे. यतिभूयमाणषष्ठ्याः सम्बन्धमात्रशक्तत्वेन अलापिच्छक्यार्थत्वाद् इति । तदुक्तं सूत्रकृता-आनर्थक्यातदनेषु इन । प्रधानाङ्गस्य आनर्थक्यात्तदङ्गेषु प्राजापत्यादिपशुषु निविशते इद वाक्यमित्यर्थः । (३) विज्ञतिपदोत्तरैकवचनस्य 'प्रत्ययामां मुख्यविशेष्यता. सम्बन्धन प्रकृतिजन्योपस्थितिविषयान्वितस्वार्थबोधकत्वम्' इति व्यु- वनविशतिपदजन्योलसम्बन्धावच्छिन्नोपस्थितिविषयताश्रयतत्सकपा स्वन्वितस्वार्थबोधकत्वं वक्तव्यम् तच्च प्रकृत्यर्थस्य माविरुद्धविंशतित्वसङ्ख्यावरुद्धत्वेनासम्भवीति उक्तसङ्ख्याक जनसमुदाय विशेषणीभूते यथाऽन्वेति एवं प्रकृते विशेष्येऽन्धयः अन्वयः शिखी ध्वस्त इत्यादिधदिति बोध्यमिति दिक। परम्परासम्बन्ध ।