पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९ अन्यासम्भवेन विशिष्टविधिस्वीकारसिद्धान्तः । स्वर्गकामो यजेत” इत्यत्र च न द्रव्यं देवता वा श्रू- यते अतस्तस्योत्पत्तिविधित्वे यागविशेषज्ञानं 'याग- सामान्यस्याविधेयत्वाद् विशेषस्यैव विधेयत्वाद'इत्या- दिक्लेशेन स्याद् । अतो नायं कर्मोत्पत्तिविधिः । नन्वेवमपि “अग्निहोत्रं जुहोति इत्ययमपि होमो- त्पत्तिविधिर्न स्याद् रूपाश्रवणात् । तच्छ्रवणाच्च “दना जुहोति”इत्ययमेवोत्पत्तिविधिः स्यात् । तथा चाधाराग्नि- होत्राधिकरण(पू०मी० अ०२ पा० २ अधि०५)विरोधः। तत्र हि(१) “अग्निहोत्रं जुहोति इत्यस्योत्पत्तिविधित्वं "दना जुहोति” इत्यादीनां गुणविधित्वमुक्तमिति चेत्- सत्यम् । “अग्निहोत्रं जुहोति इत्यत्र यद्यपि (१) अस्मिन्नधिकरणे “य एवं विद्वान् पौर्णमासी यजते" “य एवं विद्वानमावास्यां यजते' इत्यनयोः “आग्नेयोऽष्टाकपा- लः' इत्यादिवाक्यविहिताग्नेयानुवादकत्यवद् "दना जुहोति" "पयसा जुहोति" इत्येतद्विहितकर्मसमुदायानुवादकत्वम् “अग्निहोत्रं जुहोति". इत्यस्य,एवं "सन्ततमाघारयति" "ऋजुमाधारयति" "ऊर्ध्वमाघारयति" इत्येतद्विहितानुवादः "आघारमाघारयति” इति । कर्मविधायकत्व- स्य रूपाश्रवणादयुक्तत्वादित्याशङ्कय दध्यादिवाक्यानां गुणमात्रविधा- यकत्वस्य गुण्यसिद्ध्याऽसम्भवेन, गुणविशिष्टगुणिविधायकत्वस्य च गौरवपराहतत्वेन कर्ममात्रविधायकत्वम् । रूपालाभस्तु न, दध्या- दिवाक्येभ्यो द्रव्यलाभात्, देवतायाश्च "अग्निोतिः' इत्यादिमन्त्र- वर्णात्प्राप्तेः । मन्त्रवर्णस्यापि-. तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा. पुनः ॥.. देवताया विधिस्तत्र दुर्बलं तु पराम्परम् ॥ इत्यनेन देवतासमर्पकत्वाभिधानाद् । इति । .