पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यासम्भवेन विशिष्टविधिस्वीकारसिद्धान्तः । इत्यत्रापि फलोद्देशेन यागस्यैव विधानान वाक्यार्थवि- धानम्, तदुत्पत्तिविधित्ववादिनाऽपि तदङ्गीकाराच्च । तस्माद् “ज्योतिष्टोमेन" इत्ययमधिकारविधिरेव । श्रौतविधानमनेकविधिकल्पनया यद्यपि "एकादश प्रयाजान्इत्यादौ नाश्रितं(१) तथाऽप्युक्तन्यायनानेकवाक्येष्वने कयागविधिकल्पनाद- रमेकवाक्य कविधिकल्पनमभ्युपेत्य श्रौतविधानमिति बोध्यम् । ननु ज्योतिष्टोमवाक्ये प्राप्तयागोदेशेनाप्राप्तफलविधाने न श्रौतविधिरत आह तदुत्पत्तीति। तस्य फलोदेशस्य, 'यस्मिन्प्रतीति' इतिन्या- येन परेणाप्यभ्युपगमादित्यर्थः । यदि "भूयस्त्वेनोभय श्रुति" इति- ( १ ) तत्रहि-अग्नीषोमीय पशौ श्रूयते-"एकादश प्रयाजान्यजति". इति, एवं चातुर्मास्येऽपि-"नव प्रयाजान् यजति नवानुयाजान्" इति । एवमादिषु प्राकृतविध्यन्तोऽतिदिश्यते नवेति संशयव्युदासाय एते. रेकादशत्वादिगुणविशिष्टप्रयाजादेिविधिरुत प्राकृतप्रयाजाद्यनुवादेन गुणमात्रविधिरिति विचारे चोदकेन उपकारमात्रातिदेशात्तत्प्राप्तपदा. ों देशेन गुणविभ्यसम्भवात्सङ्ख्याविशिष्टानां प्रयाजानामेवात्र वि. धानम् , एवं च धात्वर्थविधानाच्छृतिरनुगृह्यते । तेषां च प्रया- जादीनामपूर्वाणां विधाने उपकारस्यापि कल्प्यत्वेनाधिकगौरवापत्त्या प्राकृतानामेव क्लप्तापकाराणां तेषामेतैर्वाक्यर्विधानं गृहमेधीयाज्य- भागन्यायेन चोदकव्यापाराभावार्थमिति प्राकृतविध्यम्तस्यानतिदेशे प्राप्त उच्यते- प्रकारद्वारतः प्राप्तेरतिदेशेन कर्मणाम् ॥ तान्यनूध गुणः शक्यो विधातुमिति तद्विधिः ॥ नच सत्यां गतौ न्याय्यं विशिष्टविधिगौरवम् । वाक्यार्थविधिदोषश्च समानः पक्षयोयोः ॥ श्रुत्यर्थविधिलिप्लया धात्वर्थे विधित्सिते गुणवादस्याप्रमाद- पाठायावश्यं पाक्यार्थविधिरङ्गीकार्यः । तथा सति विधिशक्तेर्गुण उप. सक्रमेण अनेकविधिप्रयुक्तगौरवपरिजिहीर्षया चोदकात् उपकारद्वारा प्राप्तिमालोच्य तदनुवादेन गुणमात्रविधानस्य युक्ततया गृहमेधीय- भ्यायानवसरादस्ति विध्यन्तातिदेश इति सिद्धान्तः ।