पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यासम्भवेन विशिष्टविधिस्वीकारसिद्धान्तः । नच “सोमेन यजेत"इत्यत्रापि कर्मस्वरूपे गुणे च विधीयमाने वाक्यभेदः स्यादिति वाच्यम् । श्रूयमाणेन विधिना गुणस्याविधेयत्वात(१) । विशेषणविधेरा- र्थिकत्वात् । सर्वत्र हि विशिष्टविधौ विशेषणविधिरा- र्थिकः । “ज्योतिष्टोमेन"इत्यस्य तूत्पत्तिविधित्वे कर्मस्वरूपं फलसम्बन्धश्चेति उभयं श्रूयमाणेनैव विधिना वि. धातव्यमिति दृढो गौरवलक्षणो वाक्यभेदः । यथाऽऽहु:- श्रौतव्यापारनानात्वे शब्दानामतिगौरवम् ॥ एकोक्त्यवसितानां तु नाक्षिपो विरुध्यते ॥इति। न च “सोमेन यजेत"इत्यस्योत्पत्तिविधित्वे यद्यपि न वाक्यभेदः, तथापि मत्वर्थलक्षणा स्यादेवेति वा. च्यम् । तस्याः स्वीक्रियमाणत्वात् । लक्षणातो वाक्य- मेदस्य जघन्यत्वात् । लक्षणा हि पददोषो वाक्यभेदस्तु वाक्यदोषः । पदवाक्यदोषयोर्मध्ये पदे एव दोषकल्पना- या उचितत्वाद् ‘गुणे त्वन्याय्यकल्पना' इति न्यायात् । कल्पनापत्तिरिति गौरवं दर्शयितुं विषयभेदकृततात्पर्य भेदात्मकेऽपि वाक्यभेदे गौरवलक्षणत्वोक्तिः । अविहितत्वादिति । नन्वेवम् "एकादश प्रयोजान्" इत्यादिवचःसु श्रौतविधानलिप्सया विशिष्टचि- धितामाशय 'विशिष्टविधौ वाक्यीय विधानस्यावर्जनीयत्वाद्वरं गुण- विधिः' इति दाशमिकोक्तिया॑हन्येत, गुणस्याविधेयत्वे वाक्यीयवि- २. (१) अविहितत्वादिति पाठष्टीकासम्मतः ।