पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वाक्यानर्थक्यापत्तेः । न हि तेन तदा कर्म विधीयते, तस्य तदा “दर्शपूर्णमासाभ्याम्” इत्यनेन विहितत्वात् । नापि गुणविधानं सम्भवति, प्राप्ते कर्मणि अनेकगुण- विधाने वाक्यभेदापत्तेः । अत "आग्नेयोऽष्टाकपाला" इत्यस्योत्पत्तिविधित्वं "दर्शपूर्णमासाभ्याम्" इत्यस्य चा- धिकारविधित्वं युक्तम् । "ज्योतिष्टोमेन इत्यस्य तु अधिकारविधेः “उद्भिदा यजेत पशुकामः” इत्यादिवदुत्पत्तिविधित्वेऽपि स्वी- क्रियमाणे न कस्यचिदानर्थक्यम् । “सोमेन यजेत"इ- त्यस्य गुणविधित्वात । यागोद्देशेन सोममात्रविधानाच्च न वाक्यभेद इति चेत- मैवम् । यद्यपि “सोमेन यजेत' इत्यत्र न वाक्यभेदः, तथापि "ज्योतिष्टोमेन”इत्यस्मिन्वाक्ये कर्मस्वरूपे तस्य च फलसम्बन्धे विधीयमाने गौरखलक्षणो वाक्यभेदोऽ- स्त्येव । “सोमेन यजेतइत्येतद्वाक्यविहितकर्मणः फल- सम्बन्धमात्र विधाने तदभावात् । “उद्भिदा यजेत' इत्यत्र तु वचनान्तराभावेनागत्या तदाश्रयणम् । कर्तुमुचितेति परिहरति मैवमिति । "ज्योतिष्टोमेन स्वर्गकाम: इति वाक्ये कर्मोत्पत्तिं वदता च "सर्वेभ्यः कामेभ्यो ज्योतिष्टोमा" "वसन्ते ज्योतिष्टोपेन यजत" "वसन्तै ज्योतिषा यजेत" इत्येतेषु चिनिगमकाभावात् काम्यत्तेनोत्पन्नस्य नित्यत्वज्ञापने निसानिया संयोमविरोधात्सर्वेषु कर्मोत्पत्तिपरताऽभ्युपेया । ततश्चानेककर्म- 1