पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यासम्भवेन विशिष्टविधिस्वीकारसिद्धान्तः । तेन च विहितस्य कर्मणः फलविशेषसम्बन्धमात्रमाध- कारविधिना क्रियते । फलविशेषसम्बन्धबोधकस्याधि- कारविधित्वात् । यथा “आग्नेयोऽष्टाकपालो भवति" इत्ये- तद्विहितस्य कर्मणः फलविशेषसम्बन्धमात्रं “दर्शपूर्ण- मासाभ्यां स्वर्गकामो यजेत" इति वाक्यं विधत्ते इति त- स्याधिकारविधित्वं, नोत्पत्तिविधित्वम् । स्यादेतत् । “दर्शपूर्णमासाभ्याम्" इत्येतस्य नोत्प- त्तिविधित्वं सम्भवति, “आग्नेयोऽष्टाकपालः” इत्यादि- धिसंभव इत्याशयेनाइ स्यादेतदिति । न विश्वजिदाधविप- रिवृत्तिमात्रवशेन ज्योतिष्टोमवाक्यस्योत्पत्तिपरत्वं यावत्स्वान्यशा- स्त्रविहितकर्मानुवादत्वबाधं विना तत्परताया अनिर्णयात् । प्रकृते च प्रकृतफलाकामयागानामेव फलसम्बन्धप्रतिपादनसम्भवात् । नच लिङ्गविरोधः । तत्र नित्यानुवादवचनानां सम्भवद्गतिकत्वा- त् । प्रभवति तु सोमाख्यो गुणः स्ववाक्ये सन्निहितकर्मानुवा- दतांदूरीकर्तुम् । भवितव्यं च कर्मान्तरदूरीकरणेन, अनुवादानां स- निहितगामिताया औत्सर्गिकत्वात् । नच विश्वजिदाद्यनुवादेन सोमविधिसम्भवः, तथा सति तद्वाक्येन सोमद्रव्यकतयाऽवगता. नां सन्निहितानां सिद्धान्तरीत्या ज्योतिष्टोमपदाभिधेयत्वेन फ- लप्सम्बन्धमसक्ती, य एतेनानिष्ट्वाऽथान्येन" इत्यस्य निष्फलत्वापत्तेः। ज्योतिष्टोमभिन्नसोमयागाभावात् , अतो विश्वजिदादिभिन्नस्य ज्योतिष्टोमस्यावश्यस्वीकर्तव्यतापत्तिः सोमवाक्य एवं स्त्री- मनूचीनतायाः" इति अनुवदति । तत्रोपान्त्यान्त्ययोरहोः स्वरसामशब्दो यदि सप्तदशस्तोममतिदिशेसदैतदुपपद्यतेति अनन्यसाधारणलिङ्गवश- तोऽस्य विकारता तद्वत्प्रकृतेऽपि इति भावः ।