पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यासम्भवेन विशिष्टविधिस्वीकारसिद्धान्तः। यताम् , उत्पत्तिवाक्यसिद्धो वाऽनूद्यताम् , उभयथाऽपि धात्वर्थस्य करणत्वेनान्वयात् तृतीयान्तस्य तदा- चित्वम् , अन्यथाऽन्वयानुपपत्तेरिति । तस्माद् गुणविधौ विनाऽपि लक्षणया अन्वयो- पपत्तेर्न मत्वर्थलक्षणेति । अतश्च “सोमेन यजेत" इत्यत्र न विशिष्ट- विधानम् , किं तु गुणमात्रविधानम्, यागस्तु "ज्योतिष्टोमेन स्वर्गकामो यजेत”इत्येतस्मिन्वाक्ये विधी- यते इत्येव युक्तम् । अन्यथा मत्वर्थलक्षणापत्तेरिति । अत्रोच्यते । यद्यपि यागोदेशेन सोमविधौन मत्वर्थ- लक्षणा, तथाऽपि यागस्याप्राप्तत्वात् “सोमेन यजेत” इत्यत्र न यागोदेशेन सोमविधानं सम्भवति । न च “ज्योति- टोमेन” इत्यादिना प्राप्तत्वात्तदुद्देशेन गुणमात्रं विधीयते स्य प्रकृतत्वात्तत्समानन्यायानि विध्यन्तराण्येवामुना ग्रन्थेन विषयीक्रियन्ते इत्यर्थः । अधिकारविधिग्रहणं च स्वरूपेण धा. त्वर्थमनुवदतां करणत्वेन तदन्वयं बोधयतां "पौर्णमास्यां पौ. र्णमास्या यजेत वाजपेयेन यजेत" इत्यादीनामुपलक्षणार्थम् । त- त्रैव वाक्ये कर्मोत्पत्तिपरतोचिता यस्य तत्परताग्राहकं श- ब्दान्तराद्यन्यतरत्सम्भवति । नच प्रकृताग्नीषोमीयादित्यागनापूर्व- यागविधायकं ज्योतिष्टोमवाक्यमित्यत्र किंचिन्मानम् । सोमवाक्ये तु पश्चाद्यवरुद्धेषु यागेषु अनिविशमानस्य गुणस्य सम्भ- चत्यपूर्वकर्मपरताग्राहकत्वम्, अतो न ज्योतिष्टोमवाक्यप्राप्त- कर्मानुवादेन सोमविधिरित्याशयेन समाधत्ते अवति ।