पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यदाऽप्येकस्य तदाऽपि किं द्रव्यगुणयोः फलभावनाकर- णत्वम्,उत धात्वर्थस्येति भावार्थाधिकरणे (२।१।१वर्ण२)- सन्दिह्य द्रव्यगुणयोरेख भावनाकरणत्वं, 'भूतं भव्यायो- पदिश्यते इति न्यायादित्याशङ्कय धात्वर्थस्यैव भावना- करणत्वम् , पदश्रुतेर्बलीयस्त्वादित्युक्तम् । अतश्च सिद्धमतदाक्यान्तरानालोचनदशायां गुण- विधावपि धात्वर्थस्य करणत्वाशङ्कायां गुणपदे मत्व- र्थलक्षणेति । यदातु "अग्निहोत्रं जुहोति” इति होमविधायकंवा क्यान्तरमालोच्यते तदा होमस्य वाक्यान्तरेणैव विहि- तत्वात्तदुद्देशेन गुणमात्रं विधीयते इत्यालोचनान्न मत्वर्थलक्षणेति । अत एवोक्तं पार्थसारथिमित्रैराघाराग्निहोत्राधिक- रणे(२।२।४)-‘फलतोगुणविधिरयं न प्रतीतितः' इति । यदा एतदार्तिकमधिकारविध्याभिप्रायम् । “उद्भि- दा यजेत” इत्यादीनामधिकारात । तत्र हि यागो विधी- सिदान्तस्थम् , तत्र गुणविधिमतापातबोधोपन्यासस्य न प्रकृतोपयोग पश्यामोऽन आह यति । अधिकारादिति । उद्भिद्वाक्य- कल्पनयेतरनिवृत्तिरत्सिद्धा भवति । तत्रेतरनिवृत्तदृष्टप्रयोजनाभावा- ददृष्टं कल्प्यते । नैतावता तस्याः, तत्फलस्यादृष्टस्य वा शाब्दबोधे: ऽन्तर्भूततया प्रवेशः । पूर्वपक्षिणस्तु शाब्दबोधात्प्राक् सर्वेषां भावना- करणत्वेनान्वयपालोचनया करणत्वस्य चादृष्टमन्तरेणासम्भवात्प्रकृते- ऽदृष्टान्तर्भावेनैव शाब्दकल्पनेति तदाधिक्यामति दिक् ।