पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधानेवेतिवार्तिकाविरोधप्रदर्शनम् । सितान्तःकरणानां भवत्येतादृशी मतिर्यद् ‘दधिमता हो- मेनेष्टं भावेयद्' इति । प्रतिपदाधिकरणे(२।१।१वर्ण १)हि सोमेन यजेत" इत्यादिषु किं गुणधात्वर्थयोः फलभावनाकरणत्वेनान्व- य उत एकस्यैवइति सन्दिा प्रधानसम्बन्धलाभाद् वि- निगमनाविरहाच्च सर्वेषां फलभावनाकरणत्वेनान्वयमा- शक्य लाघवादेकस्यैव फलभावनाकरणत्वमित्युक्तम् । भावनाकरणत्वं हि भावनामाव्यनिर्वतकतया । भाव्यं च स्वर्गादि नादृष्टमन्तरेणेति अनेकेषां करणत्वेऽनेका- दृष्टकल्पनाप्रसङ्गः । तस्मादेकस्यैव करणत्वम् । त्यर्थः । अनेकादृष्टेति । (१) यद्यपि सिद्धान्ते द्रव्यादिनियमादृष्ट- कल्पनादनेकाष्टकल्पना तुल्या, तथाऽपि दृष्टार्थद्रव्यादि विधानेन पर्यवसिते तद्विषौ द्रव्यादिकार्याश्रितेन नियमस्य फलत्वेन अह- ष्टकल्पना पूर्वपक्ष्यभिपतद्रव्यादिजन्यतत्कल्पनातो लघीयसी, विधिपर्यवसानाय कल्प्यमानस्य तस्य शाब्दबोधविषयत्वकल्पना- धिक्यादिति ज्ञेयम्(२) ननु “विधाने वा" इतिवार्तिकमुद्भिदधिकरण- (१) होमस्य विधिविहिताधिकरणकद्रव्यप्रक्षेपात्मकस्य, याग- स्य देवतोद्देश्यकद्रव्यत्यागात्मकस्य, एवं ददातीत्यादौ धात्वर्थस्य इ. व्यमन्तरेणानुपपत्त्या तदुपपत्तये 'येन विना यदनुपपन्नं तत्तेनाक्षि- प्यते' इति न्यायेन आक्षेपेण द्रव्यमात्रस्य प्राप्तौ द्रव्यविशेषविधि- नियमार्थ इति तत्र नियमादृष्टकल्पनाऽवघातस्थलवद् । एवमेव देवतादि- यपि इति बोध्यम् । (२) अयं भावः-सिद्धान्ते “दना जुहोति" इत्यादी नां द्रव्यविधीनां 'दना होम भावयेद्'इति शाब्दबोधोत्तरं होमोद्देशेन दध्नः करणत्वेन द्र. क्यान्तरैः पाक्षिकप्राप्ति समीक्ष्य विधेः पाक्षिकाप्राप्तपूरकत्वे तात्पर्य-