पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- जानतां प्रतिपदाधिकरणभावार्थाधिकरणवासनावा- ननु भवतु भावनायां प्रथमं विध्यन्वयः तथाऽपि कथं पुरुषार्थ- भाव्यकत्वम् । नच विधेः प्रवर्तनात्मकत्वाद पुरुषार्थभाव्यकत्वे प्रवर्त- नाऽनुपपत्तेर्विधिसम्बन्धादेव तत्वमिति वाच्यम् । लिङादयो हि 'गा. मानय' इत्यादिलौकिकव्याक्यस्थले आचार्यादिरिव 'मामेते प्रवर्तयन्ति' इत्येवंरूपं पुरुषस्य स्वकीयप्रवर्तनाज्ञानमात्रमुत्पाद्य चरितार्थाः । तत्र यदि प्रवर्तन पुरुषः प्रवृत्तिविषयस्य फलसाधनत्वं जानाति तदा प्रवर्तते न चेत् सत्यपि उक्तप्रवर्तनाशाने नैव प्रवर्तते । यदि हि लि. ङादिभिरवश्यं पुरुषः प्रवर्तनीय इति निबन्धो भवेत्तदा ते प्रवर्तनां बोधयित्वा फलाभावे पुरुषस्य प्रवर्तयितुमशक्यत्वात्प्रवृत्तिविषयस्य फलसाधनतामापाद्य प्रवृत्तिपर्यन्तं व्याप्रिपेरन् । नच तथा निर्बन्धे किञ्चित्प्रमाणमस्ति । लिङगादिशक्तिमात्रादुत्पन्नं प्रवर्तनाज्ञानमदृष्टार्थ- मपि सार्थकं भवेत् न तु तावता फलवत्त्वसिद्धिरिति चेन्न । अध्ययनविधिनाऽधीतैरक्षरैर्यथाशक्ति पुरुषस्योपकर्तव्यमिति श. क्त्यनुसारेण स्वाध्यायाक्षराणि विनियुञ्जानेन सर्वे वैदिका लिङादयः पुरुषप्रवृत्तिबोधनेन विधिज्ञानेन वा करणेन स्वस्वसन्निहितार्थवादप्र. रोचनानुगृहीतेन भावयेयुरिति प्रवर्तनायां विनियुज्यन्ते । ततश्च ज्योतिष्टोमादिवाक्यगतानां तेषां प्रवर्तनाबोधजननमात्रेण चारितार्थ्य न सम्भवति । अध्ययनविधिना ज्योतिष्टोमादिवाक्यगतलिङादिप्रव तनाया स्वभाव्यप्रवृत्तिपर्यन्ताया लिङादीन् प्रति विधानेन कर्मसु पुरुषप्रवृत्तेरपि लिङादिभिरवश्यं सम्पाद्यत्वात् । तस्मात् स्वर्गकाम- वाक्ये प्रवर्तनामात्ररूपेणावगम्यमानस्याप्यस्य विधेरध्ययनविधिना क- र्तव्यत्ववेषेणावगेमायुक्तं प्रथमावगतविधिसम्बन्धवलात्पुरुषार्थभाव्य- कत्वमिति । एवं च विधिश्रुते, कामनायोगाच्च स्वर्गपश्वादीनामेव भाव्यत्वम् यागश्च तत्साधनमिति । तदुक्तम्- पदश्रुतेर्बलीयस्या विधिश्रुत्या हि भावना । .: अवरुद्धा न यागादि भाव्यमालम्बितुं क्षमा ॥ स्वादिः कामनायोगात्फलत्वेनैव गम्यते । स्वरसात्पुरुषाणां हि कामना फलगोचरा ॥ इति ।