पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७ 7 विधानेवेतिवार्तिकाविरोधप्रदर्शनम् । मालोच्यते, तदा षष्ठाद्यन्यायेन(१) होमस्याभाव्यतां ( १ ) षष्ठाध्यायस्याधिकारप्रतिपादकत्वेन विषयाभावप्रयोज्याध्या. यानारभ्यत्वनिरासायारब्धेऽस्मिन्नधिकरण 'यजेत स्वर्गकामः" "चि. त्रया यजेत पशुकामः" "अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादिषु पु. रुषस्य कर्तृतामात्र प्रतिपाद्यत उत कर्मजन्यफलभोक्तृत्वरूपः स्वा- म्याख्योऽधिकारोऽपीति सन्दिह्य तन्निरसनाय आख्यातः प्रतिपाद्य- मानभावनायां भाव्यतया धात्वर्थस्यान्वय आहोस्वित्स्वर्गादेरिति स. न्देहे एकपदश्रुत्या शीघ्रोपस्थितस्य धात्वर्थस्यैव पदान्तरोपस्थाप्या. स्वर्गादेविलम्बोपस्थितिकात्पूर्वमन्वयः । सत्येवं स्वर्गादेर्गुणत्वमभ्यु- पेयम् । स्वर्गशब्दस्य सुखसाधनचन्दनवनितादिषु प्रयोगदर्शनात् । तेषां च द्रव्यत्वेन कामयितुं शक्यत्वात् द्रव्यमन्तरेण च यागानुपपत्तेः । एवञ्चोक्तावधिभिः फलानभिधानेन फलभोक्तृतारूपस्वाम्याख्याधि- काराभावे नोक्तोऽध्याय आरब्धव्यः । तदुक्तम्- धात्वर्थस्यैव भाव्यत्वं पदश्रुत्या प्रतीयते । स्वर्गादिः खलु वाक्येन श्रुतेर्वाक्यं च दुर्बलम् ॥ भूतं च स्वर्गपश्वादि द्रव्यं भव्याय कर्मणे । उपदेश्यं न भूताय भव्यकर्मोपदेशनम् ॥ इति पूर्वपक्षे, सिद्धान्तः- यजेतेत्यादौ प्रत्ययस्य आख्यातत्वलिङ्त्वरूपांशद्वयसत्त्वेन तस्मा- दाख्यातत्वेन भावनायाः लित्वेन च विधे प्रतीतिः । एवं च समा- नाभिधानश्रुत्योपस्थितस्य विधेर्भावनायां प्रथममन्वयो भवति । विधिश्च प्रवर्तनारूपः । प्रवृत्तिहेतुव्यापारश्च प्रवर्तनेति तद्योगिता भा. वनायाः पुरुषार्थाभाव्यकत्व न सम्भवतीति यागातिक्रमेण सुखरूप- त्वेन स्वर्गस्यैव भाव्यत्वं विधिश्रुतिबलादध्यवसीयते । अयम्भावः-लिङादयः प्रवर्तकशानजनकाः। प्रवृत्तिश्च द्वेधा स्वे. च्छाजन्या परप्रेरणाजन्या च । स्तन्यपानादौ स्वेच्छया, गामानयेत्या- द्याचार्युक्तवाक्योत्तरम् 'आचार्यप्रेरितोऽहंगामानयामि न स्वेच्छया, बालकरोदनस्थले मातुः 'बालप्रेरिताऽहं स्तन्यं ददामि न स्वेच्छया'इति प्रेरणज्ञानात् प्रवृत्तेर्दर्शनात् । तत्र शब्दश्रवणपूर्विकायां प्रवृत्ताव- न्वयव्यतिरेकाभ्यां प्रेरणाज्ञानस्य प्रवर्तकत्वात् ,विधिनिमन्त्रण"-इत्या- धनुशासनाश्च लिङादीनां प्रेरणात्मकविध्यभिधायित्वमावश्यकामिति ।