पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुणविधौ मत्वर्थलक्षणायां गुणान्वयानुपपत्तिः एण प्रकृतमनुसरामः। तत्सिद्धं धात्वर्थस्य न करणत्वे- नैनान्वयः'इति,किं तर्हि क्वचित करणत्वेन, क्वचित सा- ध्यत्वेन, क्वचिद् आश्रयत्वेनेति । गुणविधौ च साध्यत्वे- नैवान्वयः सम्भवतीति न मत्वर्थलक्षणायाः प्रयोजनम् । किं च गुणविधौ मत्वर्थलक्षणायां गुणस्य धात्व- र्थाङ्गत्वे किं मानमिति वक्तव्यम् । न तावच्छ्रुतिः । मत्वर्थलक्षणायां तृतीयाश्रुतिमत्वर्थस्यैवाङ्गत्वे मानं स्याद् न गुणस्याङ्गत्वे(१) । समभिव्याहारात्मक वाक्यमिति चेत् । तत्ति स्वतन्त्रमेव मानम् , उत लि. गश्रुती कल्पयित्वा ।नाधः । बलाबलाधिकरणविरोधा- त् । तत्र हि वाक्यं लिङ्गश्रुती कल्पयित्वाऽङ्गत्वे मान- मित्युक्तम् । द्वितीये प्रत्यक्षां श्रुतिमुत्सृज्य श्रुत्यन्तरकल्प- ने तस्या एव वा आवृत्तिकल्पने व्यर्थः प्रयासः समा- पि समभिव्याहतधातुर्यथाप्राप्त होममतुवदन्नाश्रयत्वेनैव तं बोधय- तीति न भावनायां करणत्वेन स्वार्थबोधकत्वनियमो धातुषु सङ्गच्छत इसाशयः । न तावदिति । मत्वर्थलक्षणातः पूर्व यागकर्मकभावनाकरणत्वेन दन्न उपस्थितिं कुर्वती विभक्तिः सिद्धान्तन्यायेन श्रौताङ्गत्वव्यवहारं प्रवर्तयतीति न वक्तुं श. क्यम् , जुहोतीति पदशक्तिमहिम्ना होमकरणिकाया एव भावना- याः प्रतीतेरित्याशयः । नचारुण्यन्यायोऽत्रेत्याह मत्वर्थे- ति । विलक्षणानुपूर्वीकल्पनमभिप्रेत्य श्रुत्यन्तरेति । श्रुतसजा. ( १ ) प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधक त्वन्युपचिरिति भावः ।