पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

n dot: भाहालङ्कारसहितमीमांसान्यायप्रकाशे- प्रसङ्गाद, मत्वर्थलक्षणाप्रसङ्गाच्च । नापि दध्येव केव- लं करणत्वेन विधीयते इति युक्तम् । केवलस्य व्यापा रानाविष्टस्य करणत्वानुपपत्तेः। कर्तृव्यापारव्याप्यत्वनि- यमाकरणत्वस्य । किं तर्हि विधीयते इति चेद् , दनेति तृ- तीययोपात्तं दधिकरणत्वं फलभावनायां करणत्वेन विधीयते, प्रत्ययार्थत्वेन दनोऽपि तस्य प्राधान्यात् । एवं च 'दधिकरणत्वेनेन्द्रियं भावयेद्' इति वाक्यार्थः । करणत्वं च किंप्रतियोगिकमित्यपेक्षायां सन्निधिप्राप्तो होम आश्रयत्वेन संबध्यते(१)। ततश्च सिद्धो धात्वर्थ स्याश्रयत्वेनान्वयः। फले विधीयतां तत्राह दन्नोऽपीति । ततश्चेति । यद्यपि संनिधिवशादेव होमस्याश्रयत्वं सिद्धम् , (१) अयं भावः-"दनेन्द्रियकामस्य जुलुयाद्" इति वाक्ये जु होतेनोंहेश्यतया नवा विधेयतयाऽन्वयः, किन्तु उक्तरीत्या 'य इन्द्रि यकामः स दमा' इति इन्द्रियकामोद्देशेन दधिविशिष्टं कारकं जुहो- तिपस्प्रत्ययेन विधीयते । तत्र कारकस्य क्रियापेक्षित्वादपेक्षितक्रिया समर्पणार्थ केवलप्रत्ययप्रयोगस्यासम्भवाञ्च यस्मिन् कस्मिश्विद्धा- तौ प्रयोक्तव्ये जुहोतिः प्रयुज्यते तदर्थस्य सन्निहितत्वेनानुवादस- म्भवात्, न धात्वन्तरम् । तदर्थस्याप्राप्तत्वेनानुवादासम्भवात् तस्यापि विधयत्वापत्त्या वाक्यभेदापत्तेः । एवं च दध्नति तृतीयया प्रतीयमा- नं कारकं किंक्रियानिरूपितमिति क्रियाविशेषापेक्षायां सन्निधानाद बुद्धौ विपरिवर्तमानहोमक्रियानिरूपितमित्यवगमेनोक्तधात्वर्थस्य फल. भावनाकरणीभूतगुणावच्छेदकत्वरूपनिरूपकत्वापरपर्यायेणाश्रयत्वेना. न्वय इति। तथाऽ.