पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धात्वर्थस्य करणत्वेनान्वनियमनिरासः । ७३ इत्यत्र ग्रहोद्देशेन एकत्वसंमार्गविधौ वाक्यभेदाद् ग्रहै- कत्वमविवक्षितमित्युक्तम् । (१) खत्यधिकरणे च "एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत' इत्यत्र 'वारवन्तीयस्य खेतीसम्बन्धे, अग्नि- टोमसम्बन्धे, फलसम्बन्धे च विधीयमाने वाक्यभे- दादावनोपसर्जनं भावनान्तरं विधीयते' इत्युक्तम् । तस्मात्प्राप्ते होमे नोभयविधानं सम्भवति । नापि होमान्तरं विधीयते, गौरवात् , प्रकृतहानाप्रकृतकल्पना- देव । गुणग्रहणोपलक्षणत्यस्य प्रकृतादन्यत्रापि फलमाह रेव- तीति । “त्रिदग्निष्टुदग्निष्टोमस्तस्य वायव्याम्बवेकशिमग्निष्टोम- साम कृत्वा ब्रह्मवर्चसकामो यजेत" इति यागं विधाय पठिते हि"एतस्यैव" इतिवचसि वारवन्तीयगुणस्य फलसम्बन्धशङ्कायां वाक्यभेदेन परिहारोऽभ्यधायि नचात्रानेकगुणानां विधित्सित- त्वम्, पशूनां फलत्वात् , स्तोत्रस्याश्रयत्वात् । ननु रेवसाधिकरणत्वमेव दधिकरणत्ववत्फलोद्देशेन विधेयं भवतु, तन्निरूपकत्वेन च वारवन्तीयमग्निष्टोमसाम कार्यमिति- पूर्ववाक्यस्थवारवन्तीयान्वयान्न विधेयान्तरापत्या वाक्यभेद इति चेद् , न । प्रधानविधिशेपभूतेन पूर्ववचसा प्रधानयागशेषत्वेनो- पस्थापितस्य वारवन्तीयस्याश्रयत्वेनान्यान्वयासम्भवात् , सप्त- म्यभिहिताधिकरणत्वस्य तृतीयान्ततच्छब्देन परामर्शासम्भवाच । गौरवं प्रकटयति प्रकृतेति । करणत्वविशिष्टदध्येव (१)२।२ । ११ । 90