पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- परिहतः। धात्वर्थस्य करणत्वेनैवान्वये तन्त्रसम्बन्धश- दैव न स्यात् । तन्त्रसम्बन्धशङ्कापरिहारौ च व्याख्यातौ। किं च धात्वर्थस्य न करणत्वेनैवान्वयः। गुणकामा- धिकरणे आश्रयत्वेन धात्वर्थान्वयस्योक्तत्वात् । तथा हि-“दध्नेन्द्रियकामस्य जुहुयाद्' इत्यत्र न तावद्धोमो विधीयते । तस्य वचनान्त रेण विहितत्वात् । नापि होमस्य फलसम्बन्धः, गुण- पदानर्थक्यापत्तेः । नापि गुणसम्बन्धं विधत्ते, फ लपदानर्थक्यापातात् । नाप्युभयसम्बन्धं विधत्ते, प्राप्ते कर्मण्यनेकविधाने वाक्यभेदापत्तेः । यथाऽऽदुः- "प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः॥ इति । अत्र च कर्मपदवद् गुणेत्युपलक्षणम् । एकोद्देशे- नानेकविधाने वाक्यभेदात् । अत एव ग्रहैकत्वाधिकरणे "ग्रहं सम्मार्टि" ज्ञस्यैव कस्य चित्सम्भवन्त्यास्तन्त्रसम्बन्धशङ्कायाः सम्भवति परि- हारोऽत आह-धात्वर्धस्थति । आश्रयत्वेन-फलभावनाकरणी. भूतगुणावच्छेदकत्वरूपनिरूपकत्वेन। ततश्च भावनान्वयित्वमपि ना- स्ति, नतरां तत्करणत्वमित्यर्थः । एकोद्देशेनेति । प्राप्तस्यैकस्या- नेकसंबन्धविधाने इत्यर्थः । अन्यथा होममुद्दिश्येन्द्रियस्य वि. धनाभावेन प्रकृतासि । अतएव-कर्मग्रहणस्योपलक्षणत्वा-