पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धात्वर्थस्य करणत्वेनान्वयनियमनिरासः। न हि “दना जुहोति” इत्यत्र होमस्य करणत्वं श्रूयते । तदाचकतृतीयाद्यभावात् । कल्प्यते इति चेन्न । गुण- स्य तत्र विधित्सितत्वेन साध्याकाङ्क्षायां साध्यत्वक- ल्पनाया एवोचितत्वात्-‘दना होमं भावयेद् इति । न चायमस्ति नियमो भावनायांधात्वर्थस्य करणत्वे- नैवान्बयो,न प्रकारान्तरेण इतिषष्ठाद्यपूर्वपक्षानुत्थानापत्तेः। षष्ठाये हि “यजेत स्वर्गकामः” इत्यादौ प्रत्ययवा- च्यायां वक्ष्यमाणार्थभावनायां समानपदश्रुत्या यागस्य भाव्यत्वमाशङ्कयापुरुषार्थत्वेन परिहतम् । यदि च धा- त्वर्थस्य करणत्वेनैव भावनायामन्वयस्तदा भाव्यत्व- शव नोदेतीति व्यर्थं पष्ठाद्यमधिकरणमापद्येत । किं च वाजपेयाधिकरणे तन्त्रसंबन्ध आशय फलश्रवणे तदश्रवणे च फलमुद्दिश्य धात्वर्थमुद्दिश्य वा गुणस्यैव विधित्सितत्वान्न धात्वर्थस्य करणत्वेनान्वय इति भावः । ननु प्रकृत्यान्वितस्वार्थाभिधानशक्तिः प्रत्ययगामिनी भावार्थाधिकरण- न्यायेन करणत्वान्वयनियामिका वाच्या, अन्यथा ऽनेकविधान्व- यविषयत्वे तस्या गौरवादत आह-नचेति । व्यर्थमिति । शब्दशक्तिमहिम्ना हि करणत्वान्चयावगमे पदश्रुत्या भाव्यत्वान्व- यशङ्काया असम्भवात्तन्निराकरणं व्यर्थमित्याशयः । सत्यपि प्र- कृत्यान्विताभिधायित्वे प्रत्ययात् शब्दशक्तिसिद्धकरणविषयता- या एव शक्यान्वयत्वावगमान गौरवापत्तिः । ननु भूतभव्यन्या- .याच्छब्दशक्तिसिद्धमपि करणत्वमपहाय भाव्यत्वान्वयः कल्प्य इति शङ्को निराकर्तुं षष्ठाद्यमत आह वाजपेयोत । शब्दशक्त्यनभि-