पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तत्समीपे तृतीयान्तस्तदाचित्वं न मुञ्चात” ॥ इति। अतश्च विशिष्टविधाविव गुणविधावप्यस्त्येव मत्व- र्थलक्षणोत चेत् । मैवम् । गुणान्वयानुपपत्त्या हि मत्वर्थलक्षणाऽ- गीक्रियते । यदा तु भावनायां धात्वर्थस्य करणत्वे- नान्वयस्तदाऽन्वयानुपपत्त्या साऽङ्गीकर्तव्या । गुणवि- धौ च न धात्वर्थस्य करणत्वेनान्वयो मानाभावात् । कार्यमिति शङ्कते-नन्विति।तद्वाचित्वम्,तत्प्रतिपादकताम् । न व- यमुद्देश्यतावच्छेदकरूपप्रवेशेनापूर्वार्थतां धर्मेषु ब्रूमः, किन्तु साध- नतयोद्दिश्य विहितानां साध्यार्थत्वनियमात् । दृश्यते चेक्षणसा धनसंस्कारस्याञ्जनादेरीक्षणार्थत्वव्यवहारः । साधनता तु फलो पधानात्मिका भाव्यशरीरनिक्षिप्ता न वेत्यन्यदेतत् । त्वन्मते परम् उलूखलतत्प्रोक्षणयोरिव व्रीहिद्रव्यस्य स्विष्टकृदादिकर्मणश्चापूर्वा र्थत्वाविशेषान्न ब्रीह्यनुरोधेन प्रतिपत्तिलोपः स्यात् । तस्मात् 'सोमेना- पूर्वसाधनं भावयेत्' इति विनैव मत्वर्थलक्षणया वाक्यार्थोपपत्तिरि- त्याशयेनाह-मैवमिति। ननु न ब्रीहीणामिव यागस्य कर्मत्वं श्रूयते येनोक्तविधवाक्यार्थः स्यात् , यजेतेति पदात्तु भावार्थाधि- करणन्यायेन भावनायां यागस्य करणत्वेनैवान्वयमतीतिस्तदा म- त्वर्थलक्षणाया आवश्यकत्वमत आह-गुणेति । गुणस्येति । एवे- ति शेषः । उभयोर्गुणधात्वर्थयोरप्राप्तत्त्रे प्राप्तत्वे वा भावार्था- धिकरणन्यायः, यथा सिद्धान्ते सोमवाक्ये(१), "ऐन्द्रवाय- वाग्रान् ग्रहान् गृह्णीयाद्'इत्यत्र वा । गुणमावस्याप्राप्तत्वे तु । (१)न्यायेन करणत्वेनान्वय इति पाठोऽधिकः कस्मिंश्चित् पुस्तके ।