पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमेनेत्यस्य गुणविधित्वे मत्वर्थ लक्षणाभावः । कामः” इतिवद् एकस्यैवोभयविधित्वोपपत्तेः। एवं च "सोमन यजेत” इत्यत्र न मत्वर्थलक्षणा। यदि ह्यत्र विशि- शविधानं स्यात्तदाऽन्वयानुपपत्त्या मत्वर्थलक्षणा स्या- त् । “ज्योतिष्टोमेन वर्गकामो यजेत” इत्यत्र तु याग- विधाने क्ब चिन्न मत्वर्थलक्षणा । न तावदेतस्मिन् वाक्ये, 'ज्योतिष्टोमेन यागेन स्वर्ग भावेयद् इति सामा- नाधिकरण्येनैव नामपदस्यान्वयात् । नापि “सोमेन यजे- त” इत्यत्र यागोदेशेन सोमविधानात्-‘सोमेन यागं भावयेद्' इति । नन्वनुवादेऽप्यस्ति मत्वर्थलक्षणा । अत एवोक्तम्- "विधाने वाऽनुवादे वा यागः करणमिष्यते । आवश्यकत्वेऽपि । ननु विशिष्टविध्यभावेऽपि यागस्वरूपार्थतया वि- धावानर्थक्यादपूर्वसाधनात्मना तमुद्दिश्य सोमविधौ भवेदेव म- त्वर्थलक्षणा यद्यागेनापूर्व कुर्यात्तत्सोमवतेति, इत्यत आह-ना. पीति । लक्ष्यमाणाऽपि साधनता न यागविशेष्यतया लक्ष्यते गौ- रवात्, किन्तु विशेषणतया । ततश्च सोमेनापूर्वसाधनं भावयेदिति विनैव मत्वर्थलक्षणया वाक्यार्थसम्भव इत्याशयः। स्यादे- तद् नापूर्वसाधनमुद्दिश्य विहितानामपूर्वार्थत्वं सिध्येत् विशिष्टो- देशेन विहितस्य , विशेषणाङ्गत्वेऽर्थज्ञानमुद्दिश्य विहि- ताध्ययनस्यार्थाङ्गत्वापत्तेः । अतोऽपूर्वार्थतामिच्छतोक्तविधवचनव्य- त्याश्रयणेन मत्वर्थलक्षणामाश्रित्यापूर्वोदेशेन सोमविधानं स्वी- ..