पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तत्सिद्धं सोमस्य नेतिकर्तव्यतात्वेन भावनायामन्वयः। तस्मादिशिष्टविधावन्वयानुपपत्त्या अवश्यं मत्वर्थ- लक्षणा वाच्यति । नन्वेवमपि “सोमेन यजेत"इत्यत्र न विशिष्टविधा- नम्, गौरवात, मत्वर्थलक्षणापाताच्च, किं तु “दध्ना जुहोति इतिवद् गुणमात्रविधानमस्तु, विधिशक्तेर्गुणे उपसंक्रमात् । यथाऽऽदु:- “सर्वत्राख्यातसम्बद्धे श्रूयमाणे पदान्तरे। विधिशक्त्युपसंक्रान्तः स्याद्धातोरनुवादता" ॥ इति । न च यागस्याप्राप्तत्वान्न तदुद्देशेन सोमविधा- नमिति वाच्यम् । “ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्यनेन यागस्य प्राप्तत्वात् । न चास्याधिकारविधित्वेन नोत्पत्तिविधित्वमिति वाच्यम् । “उद्भिदा यजेत पशु- इतिकर्तव्यतान्वयाक्षेपकत्वेनेत्यर्थः । यथा हीष्टविशेषाकाङ्क्षा स- स्वपि नोत्पत्तिवाक्ये तद्विशेषान्वयमाक्षिपति वाक्यान्तरादेव त- ल्लाभात, तथा यत इष्टविशेषलाभस्तत एव फलबदफलसनिधि- कल्पितवाक्यान्तरैकवाक्यत्वादितिकर्तव्यतान्वयलाभान्न त्यपि तदाकाङ्केतिकर्तव्यतान्वयमाक्षिपति यद्शाल्लक्षणाऽऽश्रीये- ताअन्वयानुपपत्त्या त्वाश्रीयमाणा सा पूर्वोक्तनयेन, त्वदुक्तदृष्टान्तेन च प्रकृतावेवोचिताऽऽश्रयितुम् । ज्योतिरादिनामस्वपि प्रकृताचेव कर्मलक्षणाऽऽश्रीयते न तु प्रत्ययेनोत्तरकालवादेः । प्रकृते च प्रकृती पत्वलक्षणाया एव सम्भवात्तदाश्रयणमित्याशयः। सोमस्थ,सोम- सम्बन्धिनः कारकादेः। एवमापि-विशिष्टविधौ मत्वर्थलक्षणाया