पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- एवेतिकर्त्तव्यतात्वाभावाद द्रव्यस्य प्रकरणादग्रहणम् यथाऽऽहुः- रिच्छेदकतात्मकं गुणभावं प्रतिपद्यते, नैवं शाब्दबोधे सोमस्य या- गेन समप्राधान्यसिद्धिपूर्वकमर्थाद्यागे गुणत्वं वक्तुं शक्यम्, समान- पदोपात्ततया भावनाकरणत्वेनावगतं यागं प्रति सोमोऽङ्गत्वेनान्वेती- ति भावार्थाधिकरणसिद्धत्वादित्याशयः। (१)एकहायनीगृष्टयादि(२) प्रति आरुण्यं च गृष्टचादेरिव यागं प्रति सोमस्य तादाभा- वप्रसङ्गाचेत्याशयः । यद्वा किमिति प्रधानविधौ सोमकरणकभा- वनायाः फलभावनान्वयपूर्वकं तद्न्या व्याख्यायन्ते प्रकृतवि- धावेव ताहगन्वयः स्वीक्रियतामत आह द्रव्यस्येति । द्रव्यं हि केवलं श्रुतं मत्वर्थलक्षणयाऽङ्गत्वेन स्वीकर्तुमुचितं न तद्विशिष्टभाव- नेतिकर्तव्यतात्वेन, तस्याः अत्राश्रुतत्वाद, अध्याहाराच्च लक्षणाया ज्यायस्त्वादिति भावः । यद्वा यथा “आग्नेयोऽष्टाकपालः" इत्यत्र विद्वद्वाक्यविहितयागानुवादेनाग्निविशिष्टद्रव्यविधि श्रीयते द्रव्य देवतयोः सम्बन्धस्य प्रागसिद्धत्वात्, तथा सोमयागयोः सम्बन्धस्य प्रागसिद्धत्वान्न सोमविशिष्टस्य विधेयता सम्भव- ति, अतो यजेतेत्यस्योपव्ययते इतिवच्छुद्धकर्मविधित्वमङ्गीकृत्य सोमेनेत्यस्य कल्प्यविशेषणविध्यन्वयो वक्तुमुचितः, अलं तादृशप- दयुक्तविधिकल्पनया,मत्वर्थलक्षणया चेत्यत आह द्रव्यस्येति । देवतोद्देश्यकत्यागकर्यतात्मकोहि द्रव्यसमवायिदेवतासम्बन्ध एकया- गभावनान्वयानिसिद्धिः, द्रव्यदेवतयोगिभावनान्वयविधिपरे वा- क्ये सिद्धवन्न तद्वैशिष्टयं शक्यते वक्तुम् , शक्यते न्वायतया यागविधिषरवाक्ये यागसोमसम्बन्धस्य सिद्धवनि- (१) एकहायनीत्यादित आरभ्य फलमुखत्वादित्याशय इत्यन्तो ग्रन्थोऽधिकः कस्मिंश्चित्पुस्तके। (२ एकहायनीमुष्टयादि प्रति आरुण्यं च मुष्टयादेरिवेति मातृका। तु भावना.