पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमस्येतिकर्तव्यतावेनान्वयनिरासः । द्वस्य वस्तुन इतिकर्तव्यतात्वाभावात्, क्रियाया एवेतिकर्तव्यतात्वात, द्रव्यस्य केवलमङ्गत्वात् । अत- स्वतो मुख्यशब्दबोधितार्थान्वितमर्थ बोधयन्न विरुध्यते, माना- न्तरविरोधात्परं तु 'तस्मिन् , मुख्ये वा लक्षणा'इति सन्देहः, तस्य प्रधानभूतार्थत्वेन गुणभूतार्थ केऽमुख्प एव लक्षणा युक्ता । यथाहि “स द्वेष्यायादेय"इति विधिवाक्यापेक्षितविषयापकत्वेन गुणभूते मुख्येऽपि "तस्यैकहायनी गौर्दक्षिणा"इतिवचोऽन्तर्गते दक्षिणाशब्दे, अत्र हि नोपक्रमोपसंहारयोः स्वतो विरोधाल्लक्षणाप्रसक्तिः, किंतु "ऋ विगाचार्यों नातिचरितव्यो"इति शास्त्रविरोधात् तथा, सोमेने- त्यत्र तु प्रकृतिप्रत्यययोर्न स्वतो विरोधः, यागविधायकप्रत्ययसमभि- व्याहाराद् लक्षणाऽऽश्रीयमाणा प्रकृतावेव वक्तुमुचिता । यद्यपि प्रत्यये लक्षणा स्यात्तथाऽपि प्रत्ययेन मत्वर्थलक्षणैवोचिता नाऽ. भेदलक्षणा, भावनिरूपिताभेदायोग्यत्वात्सोमस्येत्याशयः । कथं तहि सोमादेः फलभावनाऽन्वयित्वकथनं ग्रन्थेष्वत आह-क्रियाया इति । कल्पितविशेषणविधिबोधितायाः सोमकरणकक्रियाया- स्तदेकवाक्यतापन्नेन तत्प्रधानविधिना प्रधानभावनेतिकर्तव्यतात्वं बोधयता तहारेण करणीभूतसोमस्य फलभावनाऽन्वयापादनेनोदा- हृतग्रन्थाविरोध उपपद्यते, परम् आधाराग्निहोत्राधिकरणगता सोमस्य फलभावनाकरणत्वोक्तिः, अभेदलक्षणायां साऽनुपपन्ना स्यादि- त्यर्थः

। ननु यथाऽरुणापदस्य लक्षणया द्रव्यप्रतिपादकत्वेऽपि त-

त्परतृतीययाऽऽरुण्यनिष्ठमेव करणत्वं बोध्यते, तथा सोमवतेति ल. क्षणायामपि तृतीयायाः सोमनिष्टकरणताबोधकत्वं स्वीकृत्योक्त- ग्रन्थकृतां भावनान्वयित्वोक्तिः, श्रोताङ्गत्वोक्तिश्च किं नोपपद्यते- ऽत आह । द्रव्यस्येति । यथा ह्यारुण्यं क्रियान्वयित्वादेकहाय- न्या सह शाब्दबोधे समप्रधानतयाऽवगतमर्यादेकहायनी प्रति प-