पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमस्येतिकर्तव्यतात्वेनान्वयनिरासः । विरोधित्वन्यायेनान्त्ये प्रत्यय एव लक्षणेति चेत्, त- थाऽपि सोमस्येतिकर्तव्यतात्वेनान्वयानुपपत्तिः । सि- - येन शङ्कते । अथेति । यथा हि "त्रयो वेदा असृज्यन्त" इत्यु. पक्रमानुरोधेन "उचैर्ऋचा क्रियते” इति विधौ जघन्ये प्रधानभूते- प्यूगादिपदे वेदलक्षणाऽङ्गीक्रियते ऋग्वेदविहितमुच्चैरिति । तथा प्र- धानभूतार्थबोधके प्रत्यक्षेपि जघन्यत्वाल्लक्षणोचितेति भावः । पू. पक्ष्युक्तां प्रत्ययगतलक्षणोपपत्तिमभ्युपेत्यतिकर्तव्यतात्वलक्ष- णां निराचष्टे । तथापीति । वस्तुतो न प्रत्यये लक्षणा सम्भ- तीतिद्योतनायापिशब्दः । न तावत्सोमकरणके नेति लक्षणायाम- पि सोमस्य यागं प्रति श्रौताङ्गत्वसिद्धिः प्रोक्षिताभ्यामुलूख- लमुमलाभ्याम्"इत्यत्र विधेयभावनानन्वयिकर्मत्वाभिधायिनिष्ठाप- त्ययेनोलूखलमुसले प्रति प्रोक्षणस्येव विधेयभावनानन्वयिकरणत्वा- भिधायिन्याऽपि तृतीयया सोमस्याङ्गत्वासिद्धेः स्यादपि श्रुतविधिवि- धेयस्य प्रोक्षणस्य तत्सहकारितया निष्ठाप्रत्ययोविनियोजकान तुक. ल्प्यविधिविधेये सोमे श्रुतविधिसमभिव्याहृतायास्तृतीयाया विनियो- जकत्वं, तस्मात्प्रकृतौ प्रत्यये वा मत्वर्थलक्षणां वदता ततः प्राक् ज्ञाय- मानं तदुपजीव्यं सोमयागसम्बन्धमपेक्ष्य सोमस्य श्रौताङ्गत्वव्यवहारो नेयः यस्य ह्यबाधितं यदङ्गत्वं प्रत्यक्षया विभक्त्याऽनधिगतं बोध्यते तस्य तदात्वं श्रौतं सा विभक्तिरतत्परा तत्परा वेत्यन्यदेतत् । जा- यते च "सोमेन यजेत"इतिश्रवणात्सोमेन यागं कुर्यादिति प्रथम- बोधः सर्वेषां, सर्वत्राख्यातसम्बद्ध इति न्यायात् तृतीयाम्नानाच । न च "मयाजशेषेण हवींषि"इत्यत्र प्रथमोत्पन्नस्य प्रयाजशेषाङ्गत्व- बोधस्य बाधात्प्रयाजशेष क्षारयेदिति लक्षणया प्रयाजशेषप्राधान्य- कल्पनावत्मकृते मत्वर्थलक्षणया कल्प्यमानोपि विपरीतवाक्या- र्थोऽमुष्य प्रथमबोधस्य वाधात्कल्प्यते तद्बाधे शक्यासम्बद्धस्य ल.