पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- तात्वं लक्षणयोच्यते ततो वरं सोमपद एव प्रकृतिभूते मत्वर्थलक्षणा 'गुणे त्वन्याय्यकल्पनति' न्यायात् । अथ वेदोवा प्रायदर्शनात्' इत्यधिकरणोक्तासंजात- ननु नैतयुक्तं यतः सत्यामपि मत्वर्थ लक्षणायां प्र- त्यय एव तत्स्वीकरणमुचितं सोमकरणकेनेति तथासति तृतीयया सोमगतकरणत्वाभिधानात्सोमस्य श्रौताङ्गत्वसम्भवात् सोमवतेति लक्षणायां तृतीयया यागगतकरणत्वाभिधानप्रसङ्गात् उक्तं च संस्थाधिकरणे सोमस्य श्रौताङ्गत्वं पिरैः सोमस्तावच्छुसा यागार्थ इति । एवं च समानन्यायेषु आरुण्येन्द्रीमूक्तवाकेषु श्री ताङ्गत्वमरुणाधिकरणादिषु निर्दिष्टं प्रत्यये मत्वर्थलक्षणायामेव सङ्गच्छते । किञ्च प्रकृतिगतलक्षणायां पश्चकत्वाधिकरणोक्तं पशुत्वलिङ्गसङ्ख्यानामेककारकद्वारेण क्रियान्वयित्वं व्याहन्येत । "गुणपक्षे विधेयत्वं सङ्ख्याकारकयोरपि" । इत्युद्भिदधिकरणवार्तिकं च मत्वर्थगतयोलिङ्गसंख्ययोर्विभक्त्या- ऽभिधानप्रसक्तः। नच सर्वविशिष्टविधौ गुणवाचकपदेषु प्रकृतौ मत्व- र्यलक्षणाश्रयणं सम्भवति"दण्डं ददाति" "पदे जुहोति""अमावा- स्यायामपराह्ने पिण्डपितृयज्ञेन चरन्ति""अग्नये पवमानाय निर्वपेत्" इत्यादिषु द्वितीयाद्यर्थकर्मत्वादेर्मत्वर्थेऽनन्वयात् सोमवतेति या- गसोमयोः सम्बन्धसामान्यावगमे सोमस्य देवतात्वेनाप्यन्वयप्रस. ङ्गश्च । अथ तु प्रत्यय एव मत्वर्थलक्षणोच्यते ततोवरमभेदलक्षणा "गुणानां च परार्थत्वात्" इति धात्वर्थव्यवधानमन्तरेण भावना- न्वयौचित्यात् सप्तमाये पधान भावनान्वयोक्तेश्च । उक्तं च"प्रयोगे पुरुषश्रुतेः" इत्यधिकरणे मित्रैः "नच यागविशेषणत्वं गुणानां ये- न तस्यैकस्य विशिष्टस्य विधानात वाक्यभेदः परिहियेत सर्वेषा भावनागामित्वात्" इति, तस्मान्मत्वर्थलक्षणा नोपपद्यते इत्याश-