पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यागस्य सम्बन्धमात्रं प्रतीयते तथापि करणत्वेनो- पस्थितिदशायां न साध्यत्वेनोपस्थितिः सम्भवति वि- रोधाद् विरुद्धत्रिकद्रयापत्तेश्च । तदवश्यं 'यागेन स्व- में भावयेत्' इति करणत्वेनान्वये सति पश्चात् 'सो- मेन यागं भावयेत' इति साध्यत्वेनान्वयो वक्तव्यः । ततश्च वाक्यभेदः । न च प्रत्ययाभिहितभावनास्वरूपे यागस्वरूपमात्रमन्वेतीति वक्तुं युक्तम्, कारकाणामेव क्रियान्वयात । तत्सिद्धं सोमस्य न यागे सामानाधि- पीति । मात्रमित्यस्यानन्तरपदादिति शेषः । अपीत्यस्य फला. न्वयसिध्या इति । समानाभिधान श्रुत्यवगतविध्यन्वयवशेनेष्टं भा. वयेदिति भावनासाव्यत्वेनावगतस्य हि फलस्य केन भावयेदि. वि भावनाद्वारककरणान्वयाकाङ्क्षा न वस्तुतो यागकरणिकया. पि यामीयतयोपस्थापितभावनयाऽन्वयेन शाम्यति, अतस्तच्छ- मनाय यागेन भावयेदित्युपस्थिति रवश्यं कल्प्या, तस्यां च न सो- मापेक्षिता साध्यत्वेनोपस्थितिः सम्भवतीत्याशयः । विरोधात् । विरुद्धत्रिकद्वयापत्तरित्यर्थः । तत्परिहाराय तन्त्रसम्बन्धत्यागेनो. मयसम्बन्धस्वीकारे वाह । तदिति । इदानीं न पदाद- पि यागीयतया भावनाप्रतीतिरित्याह । नचेति । एवेति । धात्वर्षक्रियावादिभिर्विशेषणगतविभक्तेः साधुत्वार्थतां स्वीकु- वद्भिः परैर्यथा स्तोकं पचतीत्यादौ नामार्थधात्वर्थयोरभेदान्व. यं स्वीकृत्याषि भेदेन नामार्थान्वयोविभक्तवर्थद्वारक एव स्वीक्रि. यते तथोक्तोदाहरणेषु धात्वर्थादेरकारकस्य भावनायामभेदाम्ब- घेषि भेदेन तदन्वयः कारकद्वारैव स्वीकार्यः कुर्यादितिप्रतीयमा. नभावनया कि केनेति कारकद्वारेणैव धात्वर्थान्बयाकाक्षणात् ।