पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमेनेत्यत्रतन्त्रसम्बन्धशानिराकरणम् । द्भावनाकरणत्वेनान्वितस्य यागस्य साध्यत्वेनान्वया- नुपपत्तिस्तदवस्थैव । ननु यजेतेत्यत्र यागस्य न करणत्वेन नापि सा- ध्यत्वेनोपस्थितिः तद्वाचकतृतीयाद्यभावात् , किन्तु भा- वनायां यागसम्बन्धमात्रं प्रतीयते, यागस्य च भावना- सम्बन्धः करणत्वेन साध्यत्वेन च सम्भवति, तत्र कर- णत्वांशमादाय फलसम्बन्धः साध्यत्वांशमादाय गुणस- म्बन्धश्च स्यात इति चेत्-मैवम् । यद्यपि भावनया वाजपेयाधिकरणपूर्वपक्षन्यायेन मत्वर्थलक्षणामाक्षि- पति । नन्विति । सम्बन्धमात्रात । संसर्गविधया वि. षयताभानेऽपि न तस्याभीप्सितत्वमन भीप्सितत्वं वा भासते संसर्गे धर्मान्तराऽभावात् इप्सितत्वेन भाने हि साध्यत्वेनैवा- न्वयः स्यात् अन्योदेश्यकभावनायामनीप्सितविषयत्वेन भाने करणत्वेनैदान्वयः स्यादित्याशयः । करणत्वेनेत्यतः प्रागर्था दिति शेषः ततश्चात्सेत्स्यदपि यागकरणकत्वं यागकर्मकत्वं च शाब्दवोधे यागीयतया भासमानायां भावनायां वस्तुसत्फल- गुणाभ्यां तन्त्रसम्बन्धयोग्यतापादकं भविष्यतीत्याशेयनाह । तत्रेति । नच कारकव्यवधानेनैव यागस्य भावनान्वयित्वमका- रकस्य साक्षाक्रियान्वयासम्भवादितिशयं, नामार्थविषयवादस्य नियमस्य । तत्कुत इति चेत् ? भवति जानातीत्यादौ धात्वर्थस्य साक्षात्तदन्वयस्वीकरणात् प्रयाजादिभावनानामित्थमित्यव्यवधा- नेन प्रधानभावनान्वयाच्च । ततश्च सोमकरणिका फलकर्मिका यागीया भावनेति विनैव मत्वर्थलक्षणया बोधो घटत इत्यर्थः । यजेतेतिपदाद्यागीयतया भावनाप्रतीतिसम्भवमभ्युपेत्याह । यद्य-