पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- बीहिषु । तथा यागस्य सोमार्थत्वे फलभावनायां सोमस्य करणत्वेनान्वयो वक्तव्यः । भावनाकरणत्वं च भावनाभाव्यनिर्वर्तकत्वेनेत्युक्तम् । न च सोमो- ऽदृष्टमन्तरेण फलं जनयितुं समर्थः, “ग्रहैर्जुहोति" इति वाक्यविहितहोमेन तस्य भस्मीभावात् । अतो ऽदृष्टद्वयापातान्न यागस्य सोमार्थत्वमिति न 'यागेन सोमं भावयेत्' इत्यन्वयः सम्भवति, करणत्वेनोप- स्थितस्य सोमस्य साध्यत्वेनान्वयानुपपत्तेश्च । अथ, सोमेन यागं भावयेत्' इत्यन्वयः ! न, तत्र यद्यपि सोमस्य करणत्वेन यागार्थत्वाद्यागनिर्व- त्तिदृष्टमेव प्रयोजनं लभ्यते इति नादृष्टद्वयापत्तिः, नापि करणत्वेनोपस्थितस्य सोमस्य साध्यत्वान्वया- नुपपत्तिः करणत्वेनैवान्वयात्, तथाऽप्यप्राप्तत्वा- ! विवागकरणत्वव्याप्ययागविषयकत्वधीपि सोमकरणकत्वधियम् । नच तेनैव विषयत्वेनान्वयोधात्वर्थस्य, तथासति करणत्वकल्पना- फ्तेरिति अनं, द्रव्यदेवतान्वयज्ञापनस्य यागपरत्ववद्विषयत्वान्वय ज्ञापनस्य करणत्वपरत्वात् उक्तन्यायेन च फलाय विधीयमानस्य सोमस्य नाश्रयलाभः सम्भवतीति न सोमस्य श्रुतमपि करणत्वं फ: निरूपित,यागनिरूपितं तु स्यात् ततश्च यागगुणत्वेन प्रतीयमानस्य सोमस्य न तच्छेषित्वं संभवति इत्याशयेनाह । करणत्वेनेति' अप्रामत्वादिति । शास्त्रान्तरेणेष्टहेतुतयाऽवगतस्य संभवघं भावनायामुद्देश्यत्वं नाप्राप्तस्य, स्वत इष्टत्वाभावादित्याशयः । इति