पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैयधिकरण्येनान्वयेऽदृष्टद्वयापत्तिकथनम् । गस्य सोमार्थत्वं दृष्टद्वारेण सम्भवति, बीहिष्ववघाते- नेव यागेन सोमे कस्यचिदृष्टस्याजननात् । अत- स्तेन तावत्सोमे किञ्चिददृष्टं जननीयम् , प्रोक्षणेनेव भावः । नन्वाश्रयतया करणतानिर्वाहको यागः सोमस्य दृष्ट- विधयैवोपकारकोऽत आह । व्रीहि ध्विति । इन्द्रियोद्देशेन होमकरणत्वविशिष्ट दन इव यागकरणत्वविशिष्टसो- मस्य फलेन विधिमङ्गीकृस यागस्याश्रयत्वमुच्यते उत फलकरणत्वेन ज्ञातस्य सोमस्याङ्गत्वेन यागे ज्ञाते कथमस्योपकारकत्वमित्याकासायां आश्रयत्वेनेति-कल्प्यते ? नायः प्रथमप्रतीतस्य यागनिरूपितकर- णत्वस्यामाप्तस्यावश्यं विधेयत्वेन कल्प्यफलकरणत्वस्याविधेयत्वा- पत्तेः सोमयागयोः फलनिरूपितकरणत्वकल्पनासाम्ये समानपदो- पात्तस्य सोमशेषितयाऽवगतस्य यागस्यैव तत्कल्पनौचित्याश्च । द्वितीये तु प्रोक्षणान्वयात्याग्नीहीणामिव यागान्वयात्माक सोमस्य फलान्वयेन भवितव्यं फलकरणत्वेनावगतं प्रत्येव निष्फलस्यांग- त्वसम्भवात् ततश्च यागान्वयात्मागेव सोमस्य फलकरणत्वे नि- गुंदे न यागस्य तन्निर्वाहकता संभवतीत्याशयः । वस्तुतस्तु न यागवत्सोमस्य फलभावनायो शीघ्रमन्वयः संभवति निर्णीतः पदार्थः पदार्थान्तरेणान्वतीति नियमेन सोमान्वयात्माक् यागभावनान्वयनिर्णयस्यावश्यवक्तव्यत्वे सति योग्यतया यागस्यैव करणत्वान्वयनिर्णयात् अभिधानश्श्रुत्यवगतपवर्तनान्वयमहिना फलोद्देश्यकतयाऽवगतभावनायां शब्दादेव शत्या लक्षणया वाऽ. गतस्य विषयतया यागवैशिष्टयस्य सोमकरणकत्वविरोधाच, या. विषयिणी कृतिः फलोद्देश्यकेत्युक्ते हि यागेन फलं कार्यमिति यावश्यं भवतीत्युक्तं भवदेवेन, यथा चाऽजत्वविरोधिगोत्वव्या- यजेसत्वोपदेशोऽजत्वमाप्तिं प्रतिबध्नाति तथा सोमकरणत्वविरो-