पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमयागयोरैक्यरूपेणान्वयनिरासः। ५५ प्रत्ययवाच्यभावनायाः समानपदोपात्तेन यागेन क- रणाकाङ्क्षाया निवृत्तत्वेन भिन्नपदोपात्तस्य सोमस्य कर- णत्वेनान्वयानुपपत्तिश्च स्यात् । तौ यागसोमावेककरणाकाटोपशामकाविति वक्तुं शक्यं, त- स्माद्यथा “कपिंजलैर्यजेत' इत्यादौ बलवदभिधानश्रुत्या का- रकस्य लिङ्गसङ्ख्यान्वयेऽवगतेपि येन पुंसा बहुसङ्ख्येन यजेत तेन किंजातीयेनेत्याकाङ्क्षान्तरे दुर्वलपदश्रुत्युपस्थिता जातिरन्वे. ति कपिअलजातीयेनेति, एवं समानपदश्रुत्या भावनाकरण- त्वेन यागेऽवगते किं साधनकेन यागेनेत्याकाङ्क्षान्तरेण सोमस्य भावनान्वयो वाच्यः ततश्च यथा साक्षाद्भावनया सम्बध्यमाना- वपि दर्शप्रयाजौ विभिन्नाकासाग्राह्यत्वमहिम्नोपकार्योपकारकभावं भजतः इत्थमिमावपि मिथः सम्भन्स्येते, सम्भवति चांशत्रयाका- साभ्योपि भिन्ना कोंद्याकाङ्क्षावद्यागसाधनाकासा भावनाया अत आह । प्रत्ययेति । यद्धि क्रियया यादृगन्वयितयाऽऽकाशितं तागन्व यितया ज्ञायमानमेव तत्तदाकाङ्क्षा पूरयितुमलं इति निय- मात् किंसाधनकनेत्याकासायां सोमसाधनकेनेत्येवं यागविशेष- णत्वेनोपस्थितस्यैव सोपस्य कारकात्मना क्रियान्वयोवाच्यः किं- जातीयेन किंगुणकनेत्याकामयोः पश्वरुणपदाभ्यां निरूढलक्ष- णोपस्थितव्यक्तिविशेषणत्वेन ज्ञापितजात्यादेस्तदात्मनाऽन्वयवत् । नच मत्वर्थलक्षणामनिच्छतां तादृशान्वयः सम्भवतीति करणत्वेनै- मन्वषोपागवत्स्यात् तत्र च त्वदुक्त एव दोष इत्यर्थः । एतेन "हि- रण्यमात्रेयाय ददाति"इत्यादौ कर्मसम्प्रदानादेरपि मत्वर्थलक्षणया धात्वर्थविशेषणत्वेनान्वयोबोध्यः । तदपि हि श्रुतभावनया तद्वि. शेषणत्वेनैवाकाझ्यते दानेन तूपकारं भावयेदित्युक्ते हि भव- त्याकासा किंकर्मकेन किंसम्प्रदानकेन चेति, यस्त्वत्र सोमेने-