पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तश्च, यागार्थत्वानुपपत्तिश्च, यागे द्रव्यानुपपत्तिश्च, सोमक्रयण" इत्यादी क्रयाद्यनुवादेन गुणविध्यनुपपत्तेरित्याशयः। स्यादेतत् , एकक्रियान्वितयोः सोमयागयोररुणैकहायनीन्यायेन परस्परनियमे सति सोमस्य यागद्वारेणैव फलार्थत्वं सिध्यति न स्वातन्त्र्येण, एवं च विकृतियागानां द्रव्याकासायां प्रकृत्यनङ्गमपि वत्साघनत्वेन नित्यवदवगतः सोमः साधनत्वेन कल्पते अनी पोमीयानुवन्ध्ययोः पौर्वापर्यमिव सायस्के, ततश्च नोक्तदोषगण- प्रसक्तिः । सम्भवति च दृष्टार्थे सोमे प्रतिनिधिः । नच प्रधान- वाम सोमस्य प्रतिनिधिः स्यादिति शचं, त्वन्मते सोमवाक्यविधे- समावनायाः सोमयागोभयकरणत्वेन केवलयागकरणकवाक्या- तरीयभावनाभिन्नाया आरंभोत्तरं सोमाभावेऽप्याचारानुमितश्रुत्या केवलयामानुरक्ताया अवश्यसमापनीयत्वे ज्ञापिते सोमसाध्यत- बाधमतापूर्वसियर्थ तत्पतिनिधेरवश्यस्वीकार्यत्वादत आह । याग इति । “स्थघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोति" इत्यत्र दि समाहारद्वन्द्वाश्रयणेन स्थघोषयोरुपाकरणार्थत्वविधिरिति पूर्व- पक्षे योः द्वयोः साक्षाक्रियान्वयसम्भवान्नाऽरुणैकद्दायनीन्या- केन परस्परनियम इति यस्य कस्य चित् घोषस्याङ्गत्वसिद्धिः प्रयोजनमित्युक्तं तन्त्ररत्ने, तेन न्यायेन सोमयागयोः परस्पर- नियमाभाचे सकृत् श्रुतस्य यागस्य फलसाधनत्वेन सोमाश्रयत्वे. नावयासम्भवे प्रकृवावेव द्रव्यानुपपत्तिः स्यात् किमुत विकृता- वित्याशयः। ननु दर्भमन्त्रयोरुपाकरणसाधनत्वेन प्राप्तयोः कार्ये विधी- ययानौ स्थघोषौ तद्वत्साक्षादुपाकरणहेतू भवत इति युक्तं, अतीयते च द्वन्द्वोपात्तयोरैक्यरूपेण क्रियान्वयः, नतु सो- मयागो पूर्वक्लुप्ते कार्ये विधीयते, नच समानभिन्न पदोपा-